________________
२८२
कातन्त्रव्याकरणम्
प्रत्ययस्वरेऽतिदेशसंभावना । “अद् व्यजनेऽनक्" (२।३।३५) इत्यत्र च साक्षाद् विभक्तेः परिग्रहणात् तद्धितप्रत्यये नास्त्यतिदेशावकाशः । तस्मात् सूत्रमिदं समासविषयकमेव न युक्तार्थमात्रविषयकम् इति । अतो युक्तार्थमात्रस्येति वृत्तौ पाठो नास्तीति लक्ष्यते इत्याचष्टे | तन्न । तद्ग्रहणाधिकृतं युक्तार्थं निराकृत्य समासानुवर्तने मानाभावात् । किञ्च वचनमिदं नियमार्थं वक्ष्यति । यदि चात्र समासाधिकारः स्यात् तदा व्यावृत्तिरपि समास एव न युक्तार्थमात्रे, अतो 'महानिव महद्वत्, भवानिव भवद्वत्' इत्यत्र च युक्तार्थमात्रे प्रत्ययलोपलक्षणन्यायेन प्राप्तस्य “सान्तमहतो!पधायाः, अन्त्वसन्तस्य चाधातोः सौ" (२।२।१८, २०) इति दीर्घस्य प्रसङ्गात् । तथा च,
समासस्यानुवृत्तौ तु महद्वदिति दुष्यति ।
अतो युक्तार्थमात्रानुवृत्तिरत्र बुधैर्मता ॥ इति व्यञ्जनान्तस्य लिङ्गस्य सुभोरुक्तं भवत् साक्षात् सकारभकारोक्तकार्यस्यासंभवात् सकारभकार एवैककालोक्तं व्यञ्जनोक्तं भवतीति निर्गलितार्थः ।
_ [ यद् वा सुपीत्यादि, सुप उल्लेखविहितं कार्यमित्यर्थः । तत्साहचर्यात् भकारेऽपि उल्लेखविहितं कार्यं नातिदिश्यते इत्यर्थः] ।
सुपीत्यादि । ननु सुपि साक्षात् सकारभकारोक्तकार्यस्यासंभवाद् सामान्यकार्यस्यातिदेशो भवन् अघोषोक्तमपि कार्यं स्यात् । नैवम्, सुपः साहचर्याद् भकारे सामान्यकार्यमतिदिश्यमानं सुप्साहित्योक्तकार्यमेवातिदिश्यते, न "घुटां तृतीयः" (२।३।६०) इत्यादिकम्, सुभोरिति द्वन्द्वस्य साहित्यप्रधानत्वात् तथा भकारसाहचर्येण सकारोक्तसामान्यकार्यमतिदिश्यमानं भकारसाहित्योक्तमेवातिदिश्यते नाघोषोक्तमित्येतदेव हृदि कृत्वाह – साहचर्यादिति । तत्पुनर्व्यञ्जनकार्यमेवेति । यद्यप्यनेन न्यायेन विभा युक्तमपि सुभोक्तं संभवति, तथापि तत्पुत्र इत्यत्र नातिदेशप्रसङ्गः । त्यदादीनामपि विभक्तावित्यत्र साक्षात् प्रतिपत्त्यर्थविभक्तिग्रहणस्य व्यावृत्तिबलात् । अथ चतसृणां पुत्रः 'चतुष्पुत्रः' इत्यादौ समास एवातिदेशबलाच्चतम्रादेशः कथन्न स्यात् । न च तत्रापि विभक्तिग्रहणव्यावृत्तिबलान्नातिदेशप्रसङ्ग इति वाच्यम्, तत्र विभक्तिग्रहणस्य संबद्धाधिकारनिवृत्त्यर्थस्योक्तत्वात् ? सत्यम् । भकारो हि विभक्त्येकदेशस्तत्साहचर्यादेकदेशकार्यस्यैवायमतिदेशो न समुदायस्य ।