SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ भूमिका ११ १३. [ निःसन्देहार्थम् ] १. आदेशवादी त्वाह - इदमः प्रसङ्गे य इकारः स इदम् इत्युपचारान्न ज्ञापकम् “इतो लोपोऽभ्यासस्य' (३ । ३ । ३८) इति सवदिशं प्रति अर्थवशाद् विभक्तिविपरिणामोऽपि गरीयानिति तत्रग्रहणम् | आदेशाद् विभक्तिलोपो निःसन्देहार्थः (दु० टी०, क० च० २।६।२५ ) | १४. [ बालावबोधार्थम् ] १. . अनुष्टुब्बन्धेन समासस्तद्धितश्च विरचित इह बालावबोधार्थः । शब्दलाघवे न चिन्तनीयमिति ( दु० टी० २।५।६ ) | १५. [ शिष्यव्युत्पत्त्यर्थम् ] १. प्रथमा द्विकपक्षे त्रिकपक्षे चैकवाक्यतामाश्रित्याह - तस्मादिति । शास्त्रान्तरेण विभक्तिविधानं शास्त्रान्तरेण तदर्थकथनमिति तु शिष्यव्युत्पत्त्यर्थमेव (क० च० २।४।१७)। १६. [ मङ्गलार्थम् ] १. ननु वर्धनाद् वृद्धिरिति किमनया व्युत्पत्त्या ? सत्यम् । संज्ञात्वेन वृद्धेरेव प्रतिषेधो नाकारस्येति । वैयाकरण इत्यत्र प्रतिषेधनिमित्तो वृद्धिरागमो न स्यात् । यद्येवं वृद्धिग्रहणेनैवेदं । एवं सति मङ्गलार्थमिति कश्चित् ' ( वि० प० २ | ६ | ५० ) । कारक-समास-तद्धितविषयानधिकृत्य वृत्तिकार - टीकाकार- पञ्जिकाकारकलापचन्द्रकारैश्चतुर्भिर्व्याख्याकारैर्बहूनां ग्रन्थानां ग्रन्थकाराणां चाभिमतानि सिद्धान्ता विचाराश्चापि समादृताः सन्ति, तेषु कानिचिदभिमतानि नूनमेव विषयोत्कर्षादिरूपं वैशिष्ट्यं प्रकाशयन्ति । केचिद् विचारास्तेषामिहोद्धियन्ते यथोक्तवचनोल्लेखेन - १. गौणमुख्यन्यायप्रवृत्तिः गौणेनेति तदन्तविधौ गौणमुख्यव्यवहारो नास्तीति तस्य शब्दाश्रयत्वादित्याह - अथवेति कुलचन्द्रः । तन्नेति महान्तः (क० च० २।४।१)। अन्योऽन्यादिशब्देषु अमादेशविषयकाभिमतम् अन्योऽन्येतरेतरपरस्पराणां स्त्रीनपुंसकयोरम् वेति केचिदाचक्षते । इमे स्त्रियावन्योऽन्यां भोजयतः, अन्योऽन्यं भोजयतो वा । - इमे स्त्रियावन्योऽन्यां
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy