SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ भूमिका उक्तार्थानामप्रयोग इति यथा न द्वितीया तथा कर्मणि विहिता षष्ठ्यपि न भवति (दु० टी० २।४।३८) । ४. शर्ववर्माचार्यस्यार्थलाघवमभिमतम् समासस्तद्धितश्चैव सुखप्रतिपत्त्यर्थम् अनुष्टुब्बन्धेन विरचित इत्यत्र विज्ञेयग्रहणम् । एवमुत्तरेष्वपि योगेषु शब्दलाघवं न चिन्तनीयम्, अर्थप्रतिपत्तिलाघवस्य शर्ववर्मणोऽभिप्रेतत्वाद् इति (वि० प० २।५/५ पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः) । ५. स्वर्थस्य ऋद्धेद्वैविध्यम् ऋद्धिर्द्विधा - समृद्धिरात्मभावसंम्पत्तिश्च । सुमद्रम् । मद्राणां समृद्धिरित्यर्थः । आत्मभावसम्पत्तौ च – सब्रह्म । सम्पन्नं ब्रह्मशरीरमित्यर्थः (दु० टी०, वि० प० २।५।१४) । ६. समुदायस्य द्वैविध्यव्यवस्थापनम् द्विविधा हि समुदायाः - पुरुषनिर्माणा दैवनिर्माणाश्च । तत्र पुरुषनिर्माणेषु पटादिषु तन्त्वादिप्रकृतयः पटादयो भवन्ति । दैवनिर्माणेषु वृक्षादिषु समुदायादेकदेशान् यूपादीनुपलभामहे । तथा च ' खादिरो यूप:' इति विकारविधिः प्रदर्श्यते (दु० टी० २।६।११) । व्याख्याकारैः केषांचिद् वर्णानां पदानां विषयाणां वा प्रदर्शनं सुखप्रतिपत्तिउच्चारणाद्यर्थं प्रतिपाद्यते, तदिह निदर्शनार्थं प्रस्तूयते । तथाहि, १. [ सुखप्रतिपत्त्यर्थम् ] १. एवं तर्ह्यन्तग्रहणमिह सुखप्रतिपत्त्यर्थमेव ( दु० टी० २|४|१) । २. योगग्रहणं सुखप्रतिपत्त्यर्थमेव (दु० टी०, वि० प० २ । ४ । २० पर्यपाङ्योगे ) । ३. अर्थशब्दः सुखप्रतिपत्त्यर्थ एव ( दु० टी० २ | ४ | ३० - हेत्वर्थे) । ४. एवं सति षष्ठीविधानप्रकरणमिदं मन्दधियां सुखार्थम् (दु० टी० २।४ । ३८) । मन्दधियां सुखार्थमेव कृद्ग्रहणम् (दु०टी०, वि० प० २ । ४ । ४० ) । ५. ६. उदाहरणप्रपञ्चस्तु मन्दधियां सुखार्थं दर्शितः (दु० टी० २।४।४७) । ७. गणोदाहरणप्रपञ्चस्तु सुखप्रतिपत्त्यर्थ एव कृत इति (दु० टी० २।४।५०)।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy