SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ भूमिका सूत्रेण समीहितं सर्वं साधयति । टीकाकारः ‘अज्वरेः' इति प्रतिषेधवशाद् हिंसार्थग्रहणेन रुजार्थानामपि ग्रहणं मनुते, प्राण्युपघातस्य हिंसायास्तत्रापि संभवात् । ४. मकार-नकारयोरनुस्वारादेशे धुट्-झल्शब्दव्यवहारः _ 'पुंसः- शान्तिः-स्वाम्पि' इत्यादौ मकार-नकारयोरनुस्वारः उभयत्र विधीयते । पाणिनीयव्याकरणे प्रत्याहारप्रक्रियायाः प्रवर्तनाद् झल्प्रत्याहारो निमित्तरूपेण निर्दिष्टः "नश्चापदान्तस्य झलि" (अ० ८।३।२४) इति सूत्रे । कातन्त्रे प्रत्याहारा नैवाङ्गीकृतास्तेन झकारादीप्सितवर्णानां 'धुड् व्यञ्जनमनन्तःस्थानुनासिकम्" (२।१।१३) इत्यनेन धुट्संज्ञा तत्र विहिता, तस्या एवात्रापि प्रयोगो दृश्यते - “मनोरनुस्वारो धुटि' (२।४।४४)। । ५. समासे विभक्तिलोपविधौ भेदः 'नील + सि + उत्पल + सि, राजन् + ङस् + पुरुष + सि' इति स्थितौ कर्मधारयषष्ठीतत्पुरुषसमासे संप्रवृत्ते कातन्त्रे 'सि-ङस्' विभक्त्योर्लोपः प्रवर्तते “तत्स्था लोप्या विभक्तयः" (२।५।२) इत्यनेन सूत्रेण । पाणिनिस्तु समासस्य “कृत्तद्धितसमासाश्च" (अ० १।२।४५) इत्यनेन प्रातिपदिकसंज्ञां विधाय ततः "सुपो धातुप्रातिपदिकयोः" (अ०२।४।७१) इति सूत्रेण सुप्प्रत्ययानां लुविधानमाचरति । " ६. समुच्चयस्य समासासमासरूपभेदः धवश्च खदिरश्च पलाशश्चेति विग्रहे धवखदिरपलाशाः, वाक् च दृषच्चेति विग्रहे वाग्दृषदम्, छत्रं चोपानच्चेति छत्रोपानहम् इति शब्दरूपं साध्यते उभयत्र, परं पाणिनिः “चार्थे द्वन्द्वः' (अ०२।२।२९) इत्यत्र समुच्चय-अन्वाचय-इतरेतरयोगसमाहारांश्चतुरश्चार्थानङ्गीकृत्य इतरेतरयोगे समाहारे च समासं विदधाति न तु समुच्चयान्वाचययोः, परं शर्ववर्मा समुच्चये एव द्वन्द्वसमासं निर्दिशति, इतरेतरसमाहारौ समुच्चयस्यैव भेदौ स मनुते । परमयं समुच्चयो राशीभावरूपोऽवगन्तव्यः, न तु मुख्यः । मुख्ये तु समुच्चये परस्परासंबद्धानां प्रधानानां क्रियाभिसंबध्यमानानां नास्ति समासः । ७. नञ्- स्वरादिशब्दसमासे नुडागम-विपर्यासविधिभेदः 'न अजः, न अश्वः' इत्यवस्थायां समासे सति पाणिनिना "नलोपो नत्रः" (अ० ६।३।७३) इत्यनेन नलोपम्, “तस्मान्नुडचि" (अ० ६।३।७४) इत्यनेन नुडागमं च
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy