SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् कालं स्वपिति' इत्यत्रैव मुख्यकाले सफलः । यद्यपि गन्तव्य एवाध्वेति लोकप्रसिद्धिस्तथापि यदा गन्तव्यतया अध्वा धात्वर्थेन सह संबध्यते तदा कर्मसंज्ञा नान्यस्येति . सूचनार्थम् अध्वविशेषणं गन्तव्यपदम् उपात्तम् । तेन 'क्रोशमास्ते' इत्यस्यायमर्थ:यावता कालेन क्रोशो गम्यते तावन्तं कालमास्ते इति'। यदा तु गन्तव्यतया न विवक्ष्यते तदा क्रोशस्यान्त इत्येव भवतीति न्यासः। 'कालाध्वभावा गन्तव्याः' इति पाठेऽध्वनो गन्तव्यतया विवक्षितत्वम् । अत्र श्रीपतिः - तप्रत्ययेऽसंज्ञं कालादि ध्रौव्यस्येति सूत्रमाचष्टे | तत्प्रत्यये कर्मप्रत्यये कर्तव्य एव कर्मसंज्ञेत्यर्थः । तेन 'कुरून् सुप्तः' इत्यत्र सत्यपि सकर्मकत्वेऽकर्मकत्वलक्षणः कर्तरि क्तप्रत्ययः सिद्धः । तथा ‘मासमासयति छात्रम्' इत्यत्रापि सकर्मकत्वात् कथम् अनिनन्तकर्तुः कर्मत्वमिति छात्रेणेत्येव स्यात् । कालादेरन्यत्र वा कथं कर्मत्वं न स्याद् उच्यते 'कुरून् सुप्तः' इत्यत्र प्रथमम् अकर्मकलक्षणः कर्तरि क्तप्रत्ययः पश्चाद् व्याप्यत्वविवक्षया कर्मत्वमिति न दोषः । यथा त्रिमुनिसंग्रहकारमते 'मासान् पच्यते' इत्यत्र भावे आत्मनेपदं निष्पाद्य पश्चाद् धात्वर्थकृतव्याप्यत्वाद् मासादेः कर्मणः प्रयोगः । न च “गत्यकर्मक०" (अ० ३।४।७२) इत्यत्राकर्मकग्रहणं सर्वथा अकर्मकत्वप्रतिपत्त्यर्थम्, यत्र पश्चादपि कर्म न विवक्ष्यते इति वक्ष्यति तस्य व्यावृत्तिस्तदेति वाच्यम् । यदर्थविशिष्टाद् धातोः प्रत्ययः प्रत्यासत्त्या तदर्थविशिष्टस्य कर्मत्वम्, यत्र पश्चाद् विवक्ष्यते तत्र व्यावृत्तिः । अत्र स्वपनार्थविशिष्टात् प्रत्ययो विहितस्तदर्थस्य नहि कुरूणां व्याप्यत्वम्, अपि तु प्राप्तिक्रियायाः कर्मत्वमिति न दोषः । किञ्च अकर्मकलक्षणः क्तः कर्तरि विधीयमानो यदर्थविशिष्टतया धातोरकर्मकत्वम्, तेनैवार्थेन यदि सकर्मकत्वं न विवक्ष्यते तदा निर्विरोधेन भवति ।इह स्वपनक्रियायां धातोरकर्मकत्वात् कर्तरि क्तप्रत्ययः सिद्धः । नहि स्वपनक्रियायाः कुरूणां व्याप्यत्वम्, किन्तु प्राप्तिक्रियाया इति भाव इति पुस्तकान्तरे पाठः। १. दौर्गास्तु मन्यन्ते - एवंविधविषये धातोर्द्विधा वृत्तिः शयनादिमात्रे प्राप्तिविशिष्टशयनादौ च । तत्राद्ये - गम्यमानधात्वन्तरवाच्यक्रियाकर्मत्वे स्वपादेरकर्मकत्वात् कर्तरि क्ते 'कुरून् सुप्तः' । द्वितीये तु प्रापणस्यापि धातुवाच्यत्वात् कर्मकार्यं 'कुरवः सुप्यन्ते, कुरूणां स्वप्तः' इति कालादेरन्यत्र तु स्वपादेर्न विशिष्टवृत्तिः किन्तर्हि शयनमात्रे एव स्वभावादिति गोपीनाथः।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy