SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् द्वितीयपक्षे तु प्रकृतेस्तण्डुलादेरुच्छेदेन संभूतमुत्पन्नमोदनादिकं यत् किञ्चित् तद् विकार्यमित्यर्थः । किमिवेत्याह – काष्ठेति । काष्ठादीनां भस्म, तद्वत् । उपमाने वतिः। उत्तरार्धमप्येवं व्याख्येयम् । किन्तु अस्मिन् पक्षे यल्लब्धसत्ताकमित्यादि पञ्जीपङ्क्तेरयमर्थः' । लब्धसत्ताकं वस्तु, यदवस्थान्तरमापद्यते, तदवस्थान्तरमेव विकार्यमित्यर्थः । यद्यप्यस्मिन् पक्षे विकाराख्यमवस्थान्तरं यन्नीयते तद् विकार्यमित्यन्वयार्थो न घटते, तथापि मण्डपादिशब्दवद् विकारस्य ओदनादेरपि विकार्यशब्दवाच्यतेति न दोषः । अत्र पक्षे काशादीनां प्राप्यकर्मतैव । तृतीयपक्षे तु प्रकृत्युच्छेदसंभूतमित्यस्य पञ्चमीसमासो द्वितीयासमासश्चाङ्गीकर्तव्यः । तथाहि, प्रकृत्युच्छेदात् सम्भूतम् उत्पन्नं भस्मादिकं (किञ्च) प्रकृतेः स्वस्योच्छेदो विनाशस्तं संभूतं संप्राप्तम् अर्थात् प्रकृतिरूपमेव काशादिकमिति । अतः प्रकृत्युच्छेदसंभूतशब्देन काशादिकं कटादिकं चोच्यते । यद् वा प्रकृतिश्चोच्छेदसंभूतं च प्रकृत्युच्छेदसंभूतशब्देनार्थात् प्रकृतेरुच्छेदसंभूतमेव गम्यते, काष्ठादि यत् प्रकृत्युच्छेदसंभूतं काशकटादिकं तदुभयं विकार्यमित्यर्थः । किमिवेत्याह - काष्ठादीति च भस्म च काष्ठभस्मनी तद्वदित्युपमाने वतिः। एवमुत्तरार्धमपि व्याख्येयम् । किन्त्वस्मिन् पक्षे यल्लब्धसत्ताकमित्यत्र यदिति पदमुभयत्र संबन्धनीयम् । तथाहि, यल्लब्धसत्ताकं वस्तु, यच्चावस्थान्तरं तदुभयमेव विकार्यमापद्यते गम्यते इत्यर्थः । यद्यपि प्रकृतेरेव विकार्यत्वं संभवति, न विकारस्य कटादेः, तथाप्यभेदविवक्षया प्रकृतिविकृत्योर्विकार्यशब्दवाच्यतेति न दोषः । अत्र विकार्यकर्मस्थले काशाः कटं क्रियन्त इति विकारस्य गौणत्वेनानुक्तत्वात् कटादिशब्दाद् द्वितीयैव तथा च द्विकर्मकत्वात् प्रधाने कर्मण्यभिधेये दुहादीनां १. ननु लब्धसत्ताकं विशेषणं किमर्थम्, न च वस्तुसत्तासमाविष्टवस्तुग्रहणार्थमिति, तेन शशशृङ्गं धनुः करोतीत्यत्र न विकार्यतेति वाच्यम्, अस्यापि विकार्यतेष्टत्वात् ? सत्यम् । यत्र प्रकृतिविकृत्युभयप्रयोगस्तत्रैव विकार्यमिति प्रतिपादनार्थं लब्धसत्ताकं पदम्, ततश्च मृत्पिण्डं घटं करोतीत्युक्ते एव विकार्यत्वम्, न तु घटं करोतीत्युक्तिः, किन्तु निवर्त्यमेवेति । अन्यथा एकत्र निर्वयविकार्ययोः प्राप्तिः स्यादिति भावः । २. ननु ‘सकृदुच्चरितः शब्दः सकृदर्थं गमयति' इति पञ्चमीसमासे कथं पुनर्द्धितीयासमास इत्याह - यद् वेति । ३. तथा चोक्तम् - प्रकृतेर्विकृतेर्वापि यत्रोक्तत्वं द्वयोरपि । गृह्णाति वाचकः संख्या प्रकृतेर्विकृतेहि ॥ ४. उत्पत्त्यनुकूलव्यापारजन्यपूर्वभावनाशो धात्वर्थः। ततश्च कटनिष्ठोत्पत्त्यनुकूलव्यापारजन्यपूर्वभावनाशाश्रयाः काशा इति बोधः ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy