SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ७७ नामचतुष्टयाध्याये चतुर्षः कारकपादः प्राप्नोति ? सत्यम् । अमूर्तायाः क्रियायाः कर्मकार्यं नोपपद्यते इति क्रियाविशिष्टस्य साधनस्यैव कर्मत्वम् इत्यदोषः । तच्च कर्म त्रिविधम् - निर्वविकार्यं प्राप्यं चेति । क्रमेण दर्शयति-कटं करोतीत्यादि । तत्र निर्वय॑म् – यत् पूर्वम् असदेव जायते यस्य जन्म क्रियते । यथा - कटं करोतीति ।विकार्यम् - यल्लब्धसत्ताकमेवावस्थान्तरमापद्यते । तदपि द्विविधम् – एकं प्रकृत्युच्छेदसंभूतम् । यथा - काष्ठं भस्म करोति । अपरं च - गुणान्तराधानद्वारेण व्यपदेशान्तरनिमित्तम् | यथा - सुवर्णं कुण्डलं करोति । विकारमात्रविवक्षायामेकमेवोदाहरणं वृत्तौ दर्शितम् । ओदनं पचतीति । तण्डुलानोदनं पचतीत्यर्थः । प्राप्यं च - यत्र तु निर्वर्त्यविकार्यसंबन्धिनो विशेषाः पूर्वोक्ताः प्रत्यक्षेणानुमानेन वा क; न प्रतीयन्ते । केवलं प्राप्तिमात्रमेव प्रतीयते । यथा - आदित्यं पश्यतीति । तथा चोक्तम् - यदसज्जायते पूर्व जन्मना यत् प्रकाशते । तन्निवयं विकार्य च कर्म द्वधा व्यवस्थितम् ॥ प्रकृत्युच्छेदसंभूतं किञ्चित् काष्ठादिभस्मवत् । किश्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते। दर्शनादनुमानाद् वा तत् प्राप्यमिति कथ्यते ॥ (वा०प०३।७।४९-५१)। तथेत्यादि । यथा आदित्यं पश्यतीति प्राप्यं तथैवायम् इत्यर्थः । तथा अहिर्लङ्घनक्रियया व्याप्यते इति अनीप्सितमपि कर्म भवति । यन्नैवेप्सितं नाप्यनीप्सितं तदपि कर्म भवति । यथा - ग्रामं गच्छन् मार्गस्थवृक्षमूलान्युपसर्पणक्रियया व्याप्नोति । "तथायुक्तं चानीप्सितम्" (अ० १।४।५०) इति न वक्तव्यम् । तथा क्रियाविशेषणानां कर्मत्वम् एकत्वं नपुंसकत्वं चेति न वक्तव्यमित्याह - तथा स्तोकं पचतीति । सर्वो हि धात्वर्षः करोत्यर्थेनाभिव्याप्तः, स्तोकं पचनं करोतीत्यर्थः। क्रियायाश्चामूर्तत्वात् लिङ्गसंख्याभ्यामयोगात् तद्विशेषणस्य कथं लिङ्गसंख्याभ्यां योग इति उत्सर्गसिद्धं नपुंसकत्वमेकत्वं च न्यायाद् भवति । “अकथितं च" (अ० १।४।५१) इति न वक्तव्यं दुहादीनां प्रयोगे कर्मसंज्ञार्थम् । तत्र दुहादयः -
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy