________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः न तथा देवदत्तो गच्छति, ओदनं पचतीत्यादेरन्यत्र कर्तृकर्मणोः सावकाशत्वमस्तीति ? सत्यम्, अस्त्येव कर्तृकर्मणोः सावकाशत्वम् । तथाहि मुख्यक्रियासंबन्धेनाधिकरणत्वविधानाद् ‘ओदनं पचति' इत्यत्र विक्लित्तिरूपाया मुख्यक्रियायाः कर्मस्थत्वेन कर्माधिकरणयोर्विवादे लाक्षणिकाधिश्रयणादिक्रियायां कर्तुः सावकाशता । ग्राम गच्छतीत्यादौ पादविहरणात्मिकायाः क्रियायाः कर्तृस्थत्वेन कर्तृ-अधिकरणयोर्विवादे व्याप्ये ग्रामे कर्मणः सावकाशता | 'कटे आस्ते' इत्यधिकरणस्य 'सावकाशतेति परत्वादिति यदुक्तं तत् सङ्गतमेव ।
__ अन्ये तु यन्मते विक्लित्यनुकूलाधिश्रयणादिरूपो धात्वर्थस्तन्मते परत्वादित्यस्यार्थद्वयं विवक्षितम् । ओदनं पचतीत्यत्र कर्मसंज्ञां प्रति उभयोः सावकाशत्वे यत् परं तदेवोक्तम् । ग्रामं गच्छतीत्यत्र कर्मणः सावकाशत्वम् । कटे आस्ते इत्यधिकरणस्य | देवदत्तो गच्छतीत्यादौ कर्तृसंज्ञां प्रति अन्यत्रानवकाशत्वात् कर्तृसंज्ञैव स्यात् । अत एव न्यासकृतापि परत्वादनवकाशत्वादित्युक्तमिति । अतः कर्मस्थः पचतेर्भावः इत्यादि यदुक्तं तत् कर्मकर्तृस्थले बोद्धव्यम् । एतेन परम्परयेत्यादि, तेन क्रियाधारभूतकर्तृकर्मान्यतरद्वारा आधारभूतत्वमधिकरणत्वमिति लक्षणम् । तथा चोक्तम् -
क्रियाश्रयो हि कर्ता वा कर्म चेति व्यवस्थितम् । तयोरन्यतरद्वारा क्रियाधारस्य संज्ञिता ॥
क्रियाधारभूतत्वात् कर्तृकर्मणोरेव स्यादित्यवधारितं पञीकृता, नैवम् । अभिप्रायापरिज्ञानात् । न च काचित् क्रिया इत्यादिपजीपङ्क्तेरयमर्थः - न च काचित् क्रिया कटादिषु समवायसंबन्धेनोपलभ्यते इति नहि । किन्तु व्यवहितसंबन्धे उपलभ्यते कथं तेषामेवाधिकरणसंज्ञा कर्तृकर्मणोरपि स्यात् क्रियाधारभूतत्वादित्येवशब्दस्य कथं तेषामित्यनेनान्वयाददोषः । एतेन व्यवहितसंबन्धेन क्रियाधारत्वात् कटस्य समवायसम्बन्धेन क्रियाधारभूतत्वात् कर्तृकर्मणोरपि स्याद् इत्यायातम् ।
१. ननु मुख्यक्रियासम्बन्धेनाधिकरणविधाने कटे आस्ते इत्यत्र कथमधिकरणसावकाशता क्रियाया गौणसंबन्धाद् येन परत्वसङ्गतिः ? सत्यम् । क्रियाधारभूतत्वेन कर्तृकर्मणोरेव गौणमुख्यचिन्ताव्यवहारः, न तु कर्तृकर्मभिन्नस्य । एवं च सति न काचित् क्षतिरिति भावः । अथवा क्रियाया एव गौणमुख्यविचारे 'कटे आस्ते' इत्यत्र मुख्यक्रिया अस्त्येव । केवलं पचतीत्यत्र लाक्षणिकाधिश्रयणादिक्रियायाः कर्तृस्थत्वात् क्रियाया गौणत्वमेव ।
२. ननु ग्रामं गच्छतीत्यत्र कर्मसंज्ञायाः सावकाशत्वं तैः कथमुक्तम् । ओदनं पचतीत्यत्र विक्लित्तिरूपफलक्रियाश्रयस्य ओदनस्येवात्रापि संयोगरूपफलक्रियाश्रयस्य ग्रामस्याधिकरणताप्रसङ्गात् ? सत्यम् । तन्मते स्थाल्याम् आगारे ओदनं पचतीत्यत्र कर्मगतविक्लित्तिरूपफलक्रियाश्रयत्वेन स्थाल्याः कर्तृगताधिश्रयणादिरूपव्यापाराश्रयत्वेनागारस्याधिकरणतादर्शनात् तदुभयमेव मुख्यतया पचिवाच्यम्, गमेस्तु पादविहरणमेव तत्र निर्देशात् ।