________________
नामचतुष्टपाध्याये प्रथको पातुपादः [दु० टी०]
ईत् । ईदूदित्येवमिति प्रत्येकं लुप्तप्रथमैकवचनं स्त्र्याख्याविति समुदायापेक्षया द्विवचनम् । यथा पतिश्च पुत्रश्च ताविति । लुप्तप्रथमाद्विवचनो द्वन्द्वो वा । तपरकरणं किमर्थम् ? तपरमन्तरेण यू इति निर्देशे सति किमेतौ दी? वा ह्रस्वौ वा | हस्वश्चेत्, 'बहुमतिः, बहुधेनुः' इति नदीत्वाद् बहुव्रीहौ कप्रसङ्गः स्यात्, नैवम् । ह्रस्वयोर्डवति नदीवद्भावविधानात् । अथ विभाषार्थं तदिति चेत्, वद्ग्रहणं विरुध्येत, उपमानोपमेययोरविशेषत्वात् । अथ यकारो वेति । ऊकारेण स्वरेण सहचरित ईकार एव विज्ञायते ? नैवम् । बहुप्रतिपत्तिविधेयमेतदित्याह - तपरकरणमसन्देहार्थम् इति । स्त्रियमाचक्षाते इति ख्याख्यो। अस्मादेव ज्ञापकात् सोपसर्गादपि कप्रत्ययः । मूलविभुजादिवक्तव्यबलादित्वन्ये । प्रयोगश्च दृश्यते -
यस्मिन् दश सहस्राणि पुत्रे जाते गवां ददौ ।
ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुछेन जीवति ।। अथवा आचलाते इत्याख्यो। “उपसर्गे त्वातो :" (४।२।५२) इति डप्रत्ययः । ततः स्त्रिया आख्यौ इति समासः । अत्र कर्मोपपदे अण् न भवत्यभिधानादिति भावः । तदन्तविशेषणमिह नास्ति । कुमारीयतीति क्विप् | "खोर्यजनेऽये" (४।१।३५) इति यिनो यलोपः । कुमारीवाचरतीति आयेश्च पक्षे लोप इति मतम् । खरकुटीव खरकुटी, प्रतिकृतौ बहुलत्वात् को नास्तीति । कुमार्यै खरकुट्यै द्विजायेत्यत्र ऐ-प्रभृतयो भवन्ति । कथं तन्त्र्यै, वध्वै, यवल्वै । नेमौ स्त्रियामीकारोकारौ विहिताविति ? सत्यम् । ख्याख्यावयबोऽपि ख्याख्य इत्युपचारात् । यथा - 'ग्रामो दग्धः, पटो दग्धः' इति ग्रामैकदेशोऽपि ग्राम उच्यते ।
व्युत्पत्तिवादी पुनराह - स्त्रियामेतावपि विहितावीदूताविति । यथा -अतितन्त्र्यै, अतिलक्ष्म्यै, अतियवल्यै द्विजाय ! यस्तु लिङ्गमधिकृत्य तदन्तं विशेषयति, स आह - प्रथमे लिने यौ स्त्र्याख्यौ इति प्रवृत्ता नदीसज्ञा न निवर्तते । किं चाप्रधाने लिङ्गकार्यमपि दृश्यते । यथा कुन्तान् स्त्रीः प्रवेशय । यष्टीर्मनुष्यानिति कुन्तयोगात् कुन्ताः स्त्रियः । यष्टियोगाद् यष्टयो मनुष्या इति । आख्याग्रहणं च नित्यस्त्रीविषयार्थम्, स्त्रीविषये यावीदूतौ तयोर्नदीसंज्ञा यथा स्यात्, इह मा भूत् - ग्रामण्यै, यवल्वै ब्राह्मण्यै ।