SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ ५२९ परिशिष्टम् -१ २७. निर्विण्णम् निपूर्वाद् विदः क्ते निर्विण्णमिति निपात्यते । निर्विष्णोऽध्ययने जडः' । 'अदण्ड्या दण्डपातेन मिर्विष्णा यस्य तु प्रजाः'। निर्विदिरिह वैराग्यार्थः ।।२७। २८. वेनः इनन्ताद् विहितस्य कृतो नकारस्योपसर्गस्थान्निमित्ताद् वा णो भवति । प्रयापणा, प्रायापना । प्रवाहणीयम्, प्रवाहनीयम् । विहितविशेषणत्वाद् व्यवहितस्यापि प्रयाप्यमाणम्, प्रयाप्यमानम् ।।२८। २९. व्यञ्जनादेन म्युपधात् व्यञ्जनादे म्युपधाद् धातोरुपसर्गस्थान्निमित्तात् कृतो नस्य णो भवति वा । प्रकोपणम्, प्रकोपनम् । प्रगृहणम्, प्रगूहनम् । व्यञ्जनादेरिति किम् ? प्रोहणम्, प्रोखणम् । नाम्युपधादिति किम् ? प्रवहणम् । स्वरादित्येव - प्रभुग्नम् । विहितविशेषणात् - प्रकुप्यमाणम्, प्रकुप्यमानम् ।।२९। ३०. नानुषङ्गिणः __ अनुषङ्गिणो व्यञ्जनादेर्धातोः कृतो नस्य णो न भवति । नाम्युपधादिति न स्मर्यते - प्रकम्पनम्, प्रमङ्गनम्, प्रगुम्फनम्, प्रकम्पणा, प्रमङ्गणा, प्रगुम्फणा | इनन्तानामनुषङ्गित्वाभावादिति व्यञ्जनादेरित्येव- प्रेङ्खणम्, प्रोम्भणम् ।।३०। ३१. इनश्च भाभूपूकमिगमिख्याप्यायिवेपः भाप्रभृतिभ्यः केवलेभ्य इनन्तेभ्योऽपि कृतो नस्य णो न भवति । प्रभानम्, प्रभापना, प्रभवनम्, प्रभावना, प्रपवनम्, प्रपावना । पूजस्तु प्रपवणम्, प्रपावणेति । प्रकमनम्,प्रकामना ।प्रगमनम्,प्रगमना |प्रख्यानम्,प्रख्यापना |प्रप्यायनम्, प्रप्यायना । प्रवेपनम्, प्रवेपना । ख्याञिह त्रिमुनिमते चान्द्रमते च न पठ्यते ।। ३१ । ३२. हो घि हनः हनो हस्य घकारे सति णो न भवति । शत्रुघ्नः । पूर्वपदस्थादपि प्राप्तःवृत्रघ्नः । नित्यम् एकस्वरकवर्गवतीति - अन्तर्जन्ति, अन्तरघानि । अयनस्य चादेशे
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy