SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् -१ ५२५ वृक्षेभ्यश्च - शिग्रुवणम्, शिग्रुवनम् । शिरीषवणम्, शिरीषवनम् । द्वित्रिस्वरेभ्य इति किम् ? राजमाषवनम्, पारिभद्रवनम् । ओषधिवृक्षेभ्य इति किम् ? दूर्वावनम् । अनिरिकादेरिति किम् ? इरिकावनम्, तिमिरावनम्, चीरिकावनम् । इरिकादिनिषधान्न यथासंख्यमिहेति ।।५। ६. आदहस्य अदन्तात् सनिमित्तात् परस्याप्रत्ययान्तस्याहो नस्य णो भवति । पूर्वाह्नः, अपराह्नः, प्राणः । आदिति किम् ? निरह्नः । अत्प्रत्ययनिर्देशः किम् ? दीर्घाही प्रावृट् । दीर्घाहनावृतू ।।६। ७. वाह्याद् वाहनस्य उह्यते इति वाह्यम् । उह्यते येन तद् वाहनम् इत्युणादिको प्रयुट्, घुटि हस्वस्य दीर्घाभावात् । सनिमित्ताद् वाह्यात् परस्य वाहनस्य नस्य णो भवति । इक्षुवाहणम्, दर्भवाहणं शकटम् । इक्षुरुह्यतेऽनेनेत्यर्थः । “दूरादपावर्तितभारवाहणाः" इति । वाह्यादिति किम् ? दाक्षेः स्वं वाहनं दाक्षिवाहनम् । एवं "कुथेन नागेन्द्रमिवेन्द्रवाहनम्” (शिशु० १/८)। यदा त्वसौ वोढव्यस्तदा दाक्षिवाहणम्, इन्द्रवाहणं भवत्येव ।।७। ८. देशे पानस्य पूर्वपदस्थान्निमित्तात् पानस्य नस्य णो भवति देशेऽर्थे । पीयते इति पानम् । क्षीरं पानमत्रेति क्षीरपाणा उशीनराः । सौवीरपाणा बाह्लीकाः । कषायपाणा गान्धाराः । सुरापाणाः प्राच्याः । देशे कृतणत्वाः केनचिन्निमित्तेन पुरुषेष्वपि वर्तन्त एव ।।८। ९. भावकरणयोर्वा भावकरणयोर्वर्तमानस्य युडन्तस्य पानस्य पूर्वपदस्थान्निमित्ताण्णो भवति दा । क्षीरपाणम्, क्षीरपानम् । क्षीरपाणी, क्षीरपानी पात्री । अनयोरिति किम् ? उष्ट्रेण पीयते उष्ट्रपानो मणिः ।।९।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy