SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ १५. वेः स्त्रो नाम्नि विपूर्वस्य स्तृणातेः संज्ञायामवयवत्वेन स्थितस्य सस्य षो भवति । विष्टारो बृहतीच्छन्दः, विष्टारः पङ्क्तिश्छन्दः । विष्टरः कुशमुष्ट्यादिः । नाम्नीति किम् ? विस्तारः पटस्य | कथं विस्तारो विटपः । स्तृणोतेर्घञि ।। १५ । १६. विकुपरिशमिभ्यः स्थलस्य एभ्यः स्थलस्य सस्य षो भवति । विष्ठलम्, कुष्ठम्, परिष्ठलम् । शम्याः स्थलमिति ह्नस्वत्वे - शमिष्ठलम् ।। १६ । १७. गोभूमिद्वित्रिकुशक्वङ्गुमञ्जिपुञ्जिदिव्यग्निबर्हिषः स्थस्य एभ्यः स्थस्य सस्य पो भवति । गोष्ठम्, भूमिष्ठम्, द्विष्ठम्, त्रिष्ठम्, कुष्ठम्, शङ्कुष्ठम्, अङ्गुष्ठम्,, मञ्जिष्ठम्, पुञ्जिष्ठम्, दिविष्ठम् । इहालुक् सप्तम्याः । अग्निष्ठः, बर्हिष्ठः । एभ्यः इति किम् ? वारिस्थः । स्थस्येति किम् ? गोस्थितिः || १७| १८. एत्यको नाम्नि ५१७ क्वर्जितान्निमित्तादेकारपरस्य सस्य संज्ञायां षो भवति । हरिषेण, वायुषेण । एतीति किम् ? त्रिस्रोताः । अक इति किम् ? विष्वक्सेनः । कस्य खत्वं चेत् कग्रहणं कवर्गोपलक्षणम् । विष्विति मूर्धन्यो निपातः । तस्य विष्वक् - विषुव - विषुवदादयः प्रयोगाः || १८ | १९. इतो नक्षत्राद् वा इदन्तान्नक्षत्रादेकारपरस्य सस्य संज्ञायां षो भवति वा । रोहिणिषेणः, रोहिणिसेनः ।। १९ । २०. सुषामादिश्च सुषादिश्च मध्ये मूर्धन्यो भवति - सुषामा गौरिषक्थं च दुःषन्धिः सुष्ठु दुष्ठु च । निःषमोऽपष्ठुनिःषेधदुःषेधाः सऋतीषहः ॥
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy