________________
कातन्त्रव्याकरणम्
५०. संयोगान्तस्य लोपः
'संयोगान्तस्य' इति च 'लोप' इति च द्वयम् अधिकर्तव्यम् ||५० | ५१. अट्त अद्डश्च्युतामादेः
एषां संयोगस्यादेः पदान्ते लोपो भवति । 'अत् अतिक्रमहिंसयोः ' (१/३५०) टोपधस्तान्तः। समत्, समद्भ्याम्, समत्तरः । ' अद्ड् अभियोगे ' (१/१२५) दोपधो डान्तः । उदटू, उदड्भ्याम्, उदट्टरः । श्च्युतिरिह तालव्यादिः । घृतं श्च्योततीति क्विप्, घृतश्च्युतमाचष्टे इतीन् । पुनः क्विप् घृतक्, घृतग्भ्याम्, घृतक्तरः । पारायणे तु दन्त्योपदेशस्यैतद् रूपम् | तालव्योपदेशस्य तु मधुट्, मधुड्भ्याम् इति संयोगान्तलोप एवोदाहृतः । अट्टेष्टोपधत्वे अट्टिषत इत्यभ्यासे टश्रुतिः । अडेर्दोपधत्वे अड्डिडिषतीति दस्य द्विर्वचननिषेधस्तु स्यात् । नैयासिकास्तु अत्टिं तोपधमधीयानाः 'अत्टिटिषते ' इत्यभ्यासे तश्रुतिमिच्छन्तोऽस्यादिलोपं प्रत्याचक्षते || ५१ ॥
५२. सस्य च
-
सकारस्य संयोगादेर्लोपो भवति । साधुमक्, साधुमग्भ्याम्, साधुमक्तरः । सोपदेशबलान्न प्रागेव दत्वम् । धुटो लोपविषये नियमः किम् ? उदग्रयतेः क्विप्उदकू, उदग्भ्याम् । गिरिवेश्मयते । क्विप् गिरिवेट्, गिरिवेड्भ्याम् । महोष्मयतेः क्विप् महोटू, महोड्भ्याम् । भाष्ये तु संयोगान्तलोपेऽधुटो लोपो नास्तीति समर्थितम् । तन्मते समुद्झयतेः क्विप् समुत्, समुद्भ्याम् इति प्रत्युदाहरणम् । दोपधोऽयमिति पारायणिकाः ।। ५२ ।
५३. कस्याघचवर्गयोः
५०४
घादेशचवगदिशाभ्यामन्यस्य संयोगादेः कस्य लोपो भवति । गोरट्, गोरड्भ्याम्, गोरट्टरः । गृहं विविक्षत क्विप् - गृहविवीः, गृहविवीर्भ्याम्, गृहविवीस्तरः । मधु लिलिक्षतीति क्विप् । › धुलिली, मधुलिलीर्भ्याम्, मधुलिलीस्तरः । अघचवर्गयोरिति दि ? वनदिधक्, दादिधग्भ्याम् । ओदनबुभुक्, ओदनबुभुग्भ्याम् । मुहेस्तु घत्वढत्वे स्तः इति - मुमुक्, मुमुरिति स्यात् । भाष्ये तु अधुट्परस्य संयोगादेर्लोपो नास्तीति चिन्तितम्, तदा शुक्लयते : क्विप् - शुक्ल् इत्येव स्यात् ॥ ५३ ॥
༨