________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
་་་
( ३ | ६ |४७ ) इति तस्य लोपः । " अड्ड् धात्वादेः” (३।८।१६) इत्यडागमः । ननु लिङ्गप्रकरणत्वादेव धातोर्न भविष्यति, किं लिङ्गग्रहणेनेति । यद्येवम्, स्यादिविभक्तिरपि प्रकरणबलाल्लभ्यते । विराममाश्रित्य 'वृक्षान्' इत्यत्र नलोपः कथन्न स्याद् इति चेत्, नैवम् | व्यञ्जनादौ विभक्तौ विभक्तिनकारस्यासम्भवात् सर्वथा लिङ्गमेवावसीयते, तत्साहचर्याद् विरामेऽपि लिङ्गस्यैव नकारलोपो भविष्यति, किमर्थं लिङ्गग्रहणमित्याह - पुनर्लिङ्गेत्यादि । तेन " घुटां तृतीयः” (२ | ३ |६० ) इत्यादिषु धातोरपि कार्यमुपपद्यते इति ॥ २७७ ।
[क० च० ]
लिङ्गान्त० । नस्येति सिद्धे यत् कारग्रहणं तत् स्वरूपपरिग्रहार्थम् । तेन सखेत्यत्र लाक्षणिकनकारस्यापि लोपः इति केचित् । तन्न । वर्णविधौ लाक्षणिकपरिभाषाया अनित्यत्वादेव सिद्धेरिति भावः ।। २७७ ।
[समीक्षा]
‘सखि + सि, राजन् + भ्याम्, राजन् + भिस्, राजन् + सुप्, राजन् + त्व + सि' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही आचार्य लिङ्ग ( प्रातिपदिक) के अन्तिम नकार वर्ण का लोप करके 'सखा, राजभ्याम्, राजभिः, राजसु राजत्वम्' शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है - " नलोपः प्रातिपदिकान्तस्य " (अ० ८।२।७) ।
[ रूपसिद्धि ]
१. सखा । सखि + सि । "सख्युश्च" (२।२।२३) से इ को अन्, "नान्तस्य चोपधायाः” (२।२।१६ ) से नू की उपधा को दीर्घ, “व्यञ्जनाच्च" (२ । १ । ४९) से सिलोप तथा प्रकृत सूत्र से नलोपादेश ।
२. राजभ्याम्। राजन् + भ्याम् । प्रकृत सूत्र से नलोप ।
३ . राजभिः। राजन् + भिस् । प्रकृत सूत्र से नलोप तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से स् को विसर्ग ।
४. राजसु । राजन् + सुप् । प्रकृत सूत्र से नलोप ।