________________
नामचतुष्टया याये तृतीयो युष्मत्पादः
२७४. अह्नः सः [२।३।५३] [ सूत्रार्थ]
विराम के विषरः में तथा व्यञ्जनादिप्रत्यय के परे रहते ‘अहन्' शब्द के अन्तिम वर्ण को सकारादेश होता है ।।२७४।
[दु० वृ०]
'अहन्' इत्येतस्य विरामे व्यञ्जनादिषु च सो भवति । अहः, अहोभ्याम्, अहःसु, अहस्त्वम् ।।२७४।
[दु० टी०]
अह्नः । नलोपस्यापवादोऽयम् । कथमपवादोऽयम्, नलोपे हकारस्य विषयत्वात् । न च नित्यत्वम्, शब्दान्तरत्वात् । तर्हि नकारोच्चारणमनर्थकमिति नानर्थकं संबुद्ध्यर्थम् भविष्यति-हे अहः! तर्हि नस्यालुप्तवद्भावात् कथमनन्तस्य भवति । यथा विद्वान् इत्यत्र संयोगान्तलोपस्यालुप्तवद्भावाद् दत्वं न स्यात् ? सत्यम् । तत्र व्यञ्जने चरितार्थत्वाद् इत्युक्तमेव । इह तु वचनबलादनन्तस्य भवति । वचनाच्चेद् यथा अलुप्तवद्भावं बाधते तथा नलोपमपि बाधते । किञ्च ‘रात्रिरूपरथन्तरेषु' इति परिगणनमनर्थकम्, स्वरान्तस्य कथं तस्य व्यञ्जने चरितार्थत्वात् । “व्यजनान्तस्य यत् सुभोः" (२।५।४) इति लिङ्गप्रकरणत्वाद् धातोर्न भविष्यति - अहन् ।
अहन्तनुरस्य, अहन्धनमस्य - 'अहन्तनुः, अहन्धनः' इति । अहन् इति निपातोऽयं वर्गान्ते सति अहन्शब्दो भवत्येव ? सत्यम् । "व्यानान्तस्य यत्सुभोः" (२।५।४) अतिदिष्टं तन्नञि जहातेः कथन्तस्य, कथम् अव्ययस्य भवतीति ? किञ्च कृतोपधालोपोऽयं निर्देशः, यस्यैतद् रूपं संभवति, स इह गृह्यते ।।२७४ ।
[क० च०]
अह्नः । नलोपापवादोऽयं लिङ्गप्रस्तावाद् धातोर्न स्यात्, तेन ‘अहन्' इत्यत्र न भवति । तर्हि अहन्तनुरस्य, अहं धनुरस्य । अहंशब्दोऽयं निपातः । वर्गे वर्गान्तत्वे कृते अहन्तनुः, अहन्धनुरित्यत्र कथन्न स्यात्, नैवम् । ‘अह्नः' इति कृतोपधालोपनिर्देशो ज्ञापयति - यस्यैतद् रूपं संभवति तस्यैव ग्रहणमिति टीका ||२७४ |