________________
३०६
कातन्त्रव्याकरणम्
स्थानिवद्भावात् कुत उडादेशप्रसङ्गः, नैवम् । 'दध्ना' इत्यत्र "घुटां तृतीयः" (२।३।६०) इति तृतीयस्तथा 'तक्ष्णः, सक्थ्नः ' इत्यलुप्तवद्वचनं लोपमपेक्ष्य पूर्व इह गृह्यते, अतः 'प्रतिदीनः' इत्यत्रापि पूर्वस्य दीर्घोऽनिवार्य एव । परविधिस्तु "तवर्गश्चटवर्गयोगे चटवर्गी" (२।४।४६) इति भवत्येव । 'राजपुरुषः' इति । समासे प्रत्ययलोपलक्षणं न भवति 'न वर्णाश्रये प्रत्ययलोपलक्षणम्' (व्या० प० पा० ९६) इति वचनात् । यद्यपि स्वरादावित्यनेनाघुड् विशिष्यते, तथापि वस्तुतः स्वर एव निमित्तमिति । ननु न कथं वर्णाश्रयत्वम्, किञ्च परत्वात् “यजनान्तस्य यत्सुभोः” (२ । ५।४) इति नलोपे कथमकारमात्रस्य लोप इति । अथ 'एकदेशविकृतमनन्यवत्' (का० परि० १) इति मन्यते । तथापि "प्रकृतिश्च स्वरान्तस्य" (२।५।३) भविष्यति, अप्यधिकारात् वन्हन्धृतराज्ञामेवाणि भवति । यपूर्वोऽण् यण्णुच्यते - ताक्ष्णः शत्रुघ्नः, धार्तराज्ञः । अन्येषामणि न भवति - सामनो वैमनः ।। २०९ ।
[वि० प०]
अवमसं० । वमाभ्यां संयोगो विशिष्यते-विशेषणेन च तदन्तविधिरिति । अतो वमान्तसंयोगो ‘वम' इहोच्यते, उपचारात् । ततो वमश्चासौ संयोगश्चेति कर्मधारये पश्चान्नसमास इत्याह - न चेत्यादि । न पुनर्न विद्येते वमौ यस्मिन् संयोगे असाववमसंयोग इति बहुव्रीहौ अवमश्चेति संयोगश्चेति कर्मधारयः । एवं सति संयोगादेव स्यात् । ‘अक्ष्णः, सक्थनः' इत्यादिष्वेव स्यात् 'राज्ञो दध्नः' इत्यादिषु न स्यात् । मा भूद् इति चेत्, नैवम् । नाम्नाम् इत्यादिनिर्देशात् । तथा अनो लोपः इति संहितानिर्देशेऽप्यलोप इति गम्यते । अत एव निर्देशाद् विधिशब्दः कर्मसाधनः । विधीयते इति विधिः कार्यम् । पूर्वस्य वर्णस्य स्थाने विधिः पूर्वविधिः स पुनर्विधानं विधिरिति भावसाधनम्, तदा हि "कर्तृकर्मणोः कृति नित्यम्" (२।४।४१) इति वचनात् पूर्वस्येति कर्मणि षष्ठी स्यात् । ततश्च पूर्वस्मिन् वर्णे विधातव्य इत्यर्थः स्यात् ।
न चायमिह घटते, नहि अपूर्वको वर्णः कश्चिदिह पूर्वो विधातव्यः सम्भवति इत्याह - पूर्वस्येत्यादि । पूर्वस्य वर्णस्य स्थाने यत् कार्यं वचनान्तरेण प्राप्तं तस्मिन् कर्तव्य इत्यर्थः । तेन 'दमा' इत्यादिषु "धुटां तृतीयः" (२।३।६०) इत्यादिकं न भवतीत्यर्थः । न चात्र वक्तव्य : 'स्वरादेशः परनिमित्तकः पूर्वविधि प्रति स्थानिवत्'