SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये द्वितीयः सखिपादः ४-६ . मथः । मन्थि + शस् । मथिकः । मन्थि + इकण् । यथयति । मन्थि +इन् । रूपसिद्धि-संख्या १-३ के अनुसार || १९४ । १९५. अनुषङ्गश्चाक्रुश्चेत् [ २।२।३९] २७५ [ सूत्रार्थ] घुट्-भिन्न स्वर तथा व्यञ्जन के पर में रहने पर अनुषङ्गसञ्ज्ञक नकार का लोप होता है, परन्तु क्रुन्च् तथा इदनुबन्ध धातु द्वारा निष्पादित शब्द में अनुषङ्गसंज्ञक नकार का लोप नहीं होता है ।। १९५। [दु० वृ०] क्रुञ्चश्च इच्च क्रुञ्चेदिति लुप्तविभक्तिकं पदम् । अनुषङ्गसंज्ञको नकारो लोपमापद्यते अघुट्स्वरव्यञ्जनयोः । क्रुन्चेरिदनुबन्धस्य च न भवति । विदुषः, विदुषा, विदुषी, वैदुष्यम् । महतः, महता, महद्भ्याम्, महत्सु, महत्ता । अक्रुञ्चेदिति किम् ? क्रुञ्चः, क्रुङ्भ्याम्, सुकंसः, सुकन्भ्याम् ॥। १९५ । [दु० टी०] अनु० । ननु चानुकृष्टत्वादघुट्स्वरग्रहणमप्रधानम्, ततः प्रधानस्यैव अनन्तरस्य व्यञ्जनस्यानुवर्तनं स्यात् । अघुट्स्वरग्रहणं प्रधानीकृत्य व्यञ्जने चेत्युच्यते बद्धा अघुट्स्वर एवानुवर्तते । नैवम् । इहापि चकारोऽनुवर्तते, तद्बलाच्चाघुट्स्वरग्रहणं चेति हृदि कृत्वाह – अघुट्स्वरव्यञ्जनयोरिति । अयं तु चकार उक्तसमुच्चयार्थ एव । अस्मादेव प्रतिषेधात् क्वौ क्रुन्चेरनुषङ्गलोपोऽगुणे नास्तीति लिङ्गं विशिष्यते । विशेषणेन च तदन्तविधिः साक्षादिकारस्यानुषङ्गसंज्ञो नास्तीति भूतपूर्व इकार इत्याह- इदनुबन्धस्य चेति । केचिद् अक्रुन्चेरिति पठन्ति । अनिदनुबन्धानामिति प्रतिषेधाद् इदनुबन्धानामनुषङ्गः साधित एव । अतो ज्ञापकं च लक्षणं स्यादिति 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (का०परि० ७५ ) इति इकारोऽपि अनुपकारक एवेति गरीयनयं पक्ष इति । “वेत्तेः शन्तुर्वन्सुः” (४।४।४) वैदुषम् इति । " तस्येदम् ” (२ । ६ । ७) इत्यण् ।‘महन्त्’ इत्यव्युत्पन्नं लिङ्गम्, औणादिको वा निपातः । 'कुच् क्रुन्च् कौटिल्याल्पीभावयोः ' ( १।४५, ४६) क्रुञ्चतीति क्विप् । 'कसि गतिशातनयो:' (२ । ४८) सुष्ठु कंस्ते इति क्विप् । ‘अघुट्स्वरव्यञ्जनयोः' इति सामान्यं न प्रयोजयति "व्यञ्जनान्तस्य यत्सुभोः” (२|५|४) इति वचनात् ।। १९५ ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy