SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयान्याये बितीयः सखिपादः २२१ कथम् अन्यथा 'सा' इत्यत्र आप्रत्ययेन व्यवधानात् तस्य सकार इति । एकार्थादिति एकवचनान्तादित्यर्थः । ननु भाषितः पुमान् यस्मिन्नर्थे इत्युक्ते वास्तुत्वं प्रवृत्तिनिमित्तमादाय एकस्मिन् विशेष्यार्थेऽपि भाषितपुंस्कत्वाद् वास्तुशब्दस्यापि पुंवद्भावः कथन्न स्यात् । अथ पुंवद्भावेऽपि किं दूषणं यावता "वेश्मभूर्वास्तुरस्त्रियाम्" (अ०को० २।२।१९) इति कोशदर्शनात् 'वास्तुने, वास्तवे' इत्यादि रूपद्वयं स्यात् । नैवम् । वास्तुने स्थानाय, वास्तवे स्थानाय' इत्यपि पुंवद्भावे प्रयोगःस्यात् । अत एव परेणापि समानायामाकृताविति सूत्रमुच्यते । अयमभिप्रायः। आकृतिः शब्दस्य प्रवृत्तिनिमित्तं तदेव यत्र समानं तत्रैव भवति । न तु यत्र विशेष्योऽर्थः समानस्तत्रेति, सत्यम् । भाषित इति अतीतकाले क्तप्रत्ययस्य विधानाद् भिन्न एव विशेष्ये पुंवद्भावः संभवतीति वास्तुशब्दे एकविशेष्ये तु अधुनापि पुमान् भाषित इति पुंवद्भावो न भवतीति कुलचन्द्रः। एतत् सर्वम् अनुचितमिति महान्तः। समानायामाकृताविति न कृतं सूत्रम् । किन्तु तात्पर्यपरिप्राप्तमर्थकथनं काशिकायामुक्तम्, ततश्च वास्तुशब्दे पुंवद्भावो भवत्येव, तेन 'वास्तुने, वास्तवे स्थानाय' इत्यपि प्रयोगः केन वार्यताम् इति । ह्रस्वाभावश्चेति । ननु न्वागमस्य प्रकृतत्वात् तदभावोऽतिदिश्यताम् । ननु ह्रस्वाभावोऽप्रकृतत्वात् किं च टाधुत्पत्तेः प्रागेव प्रवृत्तो ह्रस्वः कथं पुंवद्भावेन निवर्तयितुं शक्यते, भिन्नकालीनत्वेन बाध्यबाधकत्वाभावात् ? सत्यम् । टादाविति विषयसप्तमीति कुलचन्द्रः। वस्तुतस्तु 'भाषितपुंस्कान्नुर्वा' इति सिद्धे पुंवद्ग्रहणं ह्रस्वाभावार्थमिति ।। १७०। [समीक्षा] ‘कर्ता- कर्तृणा कुलेन, मृदवे- मृदुने वस्त्राय' इत्यादि प्रयोगों में कातन्त्रकार और पाणिनि दोनों ही विकल्प से पुंवद्भाव करते हैं । अन्तर यह है कि कातन्त्रकार ने किसी पूर्वाचार्य का स्मरण किए बिना ही 'वा' पद सूत्र में पढ़कर आदेश का वैकल्पिक विधान किया है, परन्तु पाणिनि ‘गालव' आचार्य (तृतीयादिषु भाषितपुंस्कं पुंक्द्र गालवस्य - अ० ७।१।७४) के मतानुसार पुंवद्भाव का निर्देश करते हैं। वस्तुतः ‘गालव' आचार्य से पूर्व भी वैकल्पिक पुंवद्भाव की प्रवृत्ति होने के कारण उनके नाम का उल्लेख पूजार्थ किया गया है । यहाँ यह कहना तो अधिक संगत हो सकता है कि गालव आचार्य या उनके शिष्यगण पुंवद्भाववाले शब्दरूप
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy