SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाप्याये द्वितीयः सविपादः २२१ 'मु' आगमे तमित्यनिष्टरूपं स्यात्, कथं वा "न च तदुक्तम्" इति प्रतिषेध उपपद्यते । नैवम्, इष्टसिद्ध्यर्थमुपादीयमाना विषयसप्तमी न सर्वत्र युज्यते इति कुलचन्द्रः। वस्तुतस्तु "त्यदादीनाम" (२।३।२९) इत्यत्र परसप्तम्येवेति न दोषः । तथाहि यस्मान्नामिनः स्वरो विहितः श्रुतत्वात् तस्मान्नामिनः एव नुर्भवतीत्युक्ते कुतो द्वयोरित्यत्र न्वागमप्रसङ्गः, कथन्तर्हि 'प्रियतिसृणी वने' इति सिध्यति । न ह्यत्र 'प्रियतिसृ' शब्दात् स्वरो विहितः किन्तु 'प्रियत्रि' शब्दाद् इति ? सत्यम् । “विचतुरोः स्त्रियाम्" (२।३।२५) इत्यत्र विभक्ताविति विषयसप्तमी आश्रयणीया । ततश्चानुत्पन्नायामेव विभक्तौ तिनादेशे कृते पश्चाद् विहितः स्वर इति श्रुतव्याख्यानं सुतरामेव घटते । कथन्तर्हि 'प्रियत्रि कुलम्' इति विषयसप्तम्या प्रथमं तिनादेशस्य प्राप्तत्वात्तदुक्तप्रतिषेधस्यानुपपत्तेनिमित्तकार्यत्वात् ? सत्यम् । त्रिचतुरोरित्यत्र परसप्तम्येव निश्चिता तर्हि 'प्रियतिसृणी कुले' इति न सिध्यति, प्रियत्रिशब्दात् स्वरस्य विहितत्वात् । तिनादेशे नुर्न स्यात् ? सत्यम् । “न नामि दीर्घम्" (२।३।२७) इत्यत्र नकारेण न्वागमो ज्ञापितः । तथाहि "दीर्घमामि सनौ" (२।२।१५) इत्यनेव विहितस्य दीर्घस्य निषेधादर्थान्वागमेन सह आमिति लभ्यते, किं "न नामि दीर्घम्" (२।३।२७) इत्यत्र नकारकरणेन ? तस्मान्नकारकरणं बोधयति - न्वागमेन "तौ र स्वरे" (२।३।२६) इत्यनेन प्राप्तं रत्वं बाध्यते । ततश्चामि परे सूत्रबलादेव रत्वबाधा गम्यते, अन्यथा न्वागमाभावे प्रसक्त्यभावान्निषेधानुपपत्तेः, ततस्तत्र न ज्ञापकस्य फलमित्यर्थः। ज्ञापकफलं तु 'प्रियतिसृणी' इत्यादौ ज्ञापकस्य सर्वोद्दिष्टत्वात् । तत्र रत्वबाधा तदैव संभवति, यदि तिनादेशे कृतेऽपि नुर्भवति । तस्मात् तिनादेशं प्रति श्रुतव्याख्या नास्तीति संक्षेपः। यत्संज्ञकान्नाम्यन्ताद् विहितः स्वरः श्रुतत्वात् तत्संज्ञकान्नाम्यन्तादेवेत्युक्ते नास्ति दोष इति केचित् । यद् वा "शासेरिदुपधायाः" (३।४।४८) अण्व्यञ्जनयोरिति ज्ञापकान्नुविधाने सामान्यनामिनोऽग्रहणान्न दोषः । ततः सन्ध्यक्षरे नामिव्यावृत्तिः । 'वारिणी' इत्युदाहृतं लाक्षणिकस्वरे यथा स्यादिति । 'अर्थवद्ग्रहणे नानर्थकस्य' (कात० प० ४) इत्यनित्योऽयं न्यायः ‘अनिनस्मनामेव' इत्याह – अथवेति ।। १६८। [समीक्षा] 'वारि + औ, वारि + डे' इस अवस्था में कातन्त्रकार 'नु' आगम तथा पाणिनि 'नुम्' आगम करके 'वारिणी, वारिणे' शब्दरूप सिद्ध करते हैं | पाणिनि का सूत्र
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy