SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये प्रथमो धातुपादः १५३ [वि० प०] सि० । अथ किमर्थमकारग्रहणाम् । उम् इति कर्मपदम् । तच्च कर्तारमपेक्षते । न चान्य इह कर्ता संभवति । ङसिङसोरवयव उमापद्यत इति संबन्धो भविष्यति । न चैवं सकारस्य प्रसङ्गो भिन्नजातीयत्वात् । उकारो हि स्वरः प्रवर्तमानोऽपरस्य सजातीयस्यैव प्रवर्तते न व्यञ्जनस्य । यथा भोक्तुकामो ब्राह्मण इत्युक्ते अपरस्यैव ब्राह्मणस्य विषय इति । अथवा सख्युश्चेति निर्देशाद् अकार एव स्थानीत्याह - अग्रहणमित्यादि । अग्रहणे सति ङसि - ङसोरकारेण सह संबन्धो न सखिपतिभ्याम् । ङसिङसोरकारः सखिपतिभ्यां पर इति । तेन वैषम्यान्न यथासङ्ख्यमिति ।। १४१ । 1 [क० च०] ङसि० । ननु “ दिन उद् व्यञ्जने” (२।२।२५) इत्यत्र व्यञ्जनस्थानेऽपि स्वरो विधीयते । तद्वदत्रापि ‘वर्णान्तस्य विधि : ' ( कात० प० ५ ) इति न्यायाद् ङसिङसोः सकारस्य उकारः स्याद् इत्याह- 'सख्युश्व' (२।२।२३) इति ज्ञापकादिति ।। १४१ । [समीक्षा] ‘सखि + ङसि- ङस्, पति + ङसि - ङस्' इस अवस्था में कातन्त्रकार ' ङसि - ङस्' प्रत्ययघटित अकार को उकारादेश करके 'सख्युः, पत्युः' शब्दरूप निष्पन्न करते हैं । पाणिनि का भी एतादृश ही निर्देश है - "ख्यत्यात् परस्य " ( अ० ६ । १ ।११२)। [रूपसिद्धि १. सख्युः । सखि + ङसि - ङस् । प्रकृत सूत्र से अकार को उकार, " इवर्णो यमसवर्णे न च परो लोप्यः” (१।२।८) से इकार को यकार तथा "रेफसोर्विसर्जनीयः” (२।३।६३) से विसर्ग आदेश | २. पत्युः । पति + ङसि - ङस् । पूर्ववत् अ को उ, इ को य् तथा स् को विसर्ग ।। १४१ । १४२. ऋदन्तात् सपूर्वः (२1१।६३ ) [सूत्रार्थ] ऋकारान्त लिङ्ग = प्रातिपदिक से परवर्ती ' ङसि - ङस्' प्रत्ययघटित अकार अपने पूर्ववर्ती स्वर के साथ उकार को प्राप्त होता है ।। १४२ ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy