SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १४२ कातायाकरणम् २. पटवः। पटु + जस् । प्रकृत सूत्र - द्वारा उकार को ओकार, "ओ अब" (१।२।१४) से ओकार को 'अव्' तथा सकार को विसगदिश । ३-४. युद्धपः। बुद्धि + जस् । धेनवः । धेनु + जस् । पूर्ववत् एकार - ओकारअय् - अव् तथा विसगदिश ।। १३४। १३५. सम्बुद्धौ च [२।११५६] [सूत्रार्थ] संबुद्धिसंज्ञक 'सि' प्रत्यय के पर में रहने पर लिङ्ग प्रातिपदिक के अन्त्यावयव इकार को एकार तथा उकार को ओकार आदेश होता है ।। १३५। [दु० वृ०] संबुद्धौ। लिङ्गस्येरेद् भवत्युरोच्च । हे अग्ने ! हे धेनो ! अग्नेः संबुद्धावित्येके - हे नदि, हे वधु ।। १३५। [दु० टी०] संबुद्री० । ननु नद्याः संबुद्धौ ह्रस्वत्वे कृतेऽपि प्राप्नोति । नच वक्तव्यम् 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (कात०प० पा०७५) नतु लाक्षणिकस्येति । 'हे अतिनदे, हे अतिचित्रगो' इति न सिध्यति । अथ श्रुतयोरिकारोकारयोः संबोधने स्याच्चेत् । इः कामः, उरीशः ए - ओ इति भवितुमर्हति ? सत्यम् । इकारोकारयुक्तोऽपि तथोपचर्यते, व्याप्त्या च यथा दण्डयुक्तो दण्डस्तस्य संबोधनं 'हे दण्डेति, हे नदि, हे वधु' इत्यत्र ह्रस्वात् प्राङ् नदीयुक्तस्य संबोधनं प्रवृत्तम्, न ह्रस्वावस्थायामिति कुतः प्रसङ्गः । अन्यः पुनराह - विहितविशेषणं कर्तव्यम् । अग्नेविहितायां संबुद्धाविति | इकार उकार इति प्रथमाया अपि 'याख्यानतो विशेषार्थप्रतिपत्तिः' (कात० प० ६५) इति पञ्चम्या विपरिणामोऽग्नेरित्यनुवर्तते वा इत्याह - अग्नेरित्यादि । इह तु मतान्तरमेव दर्शितम् ।। १३५। [वि० प०] सम्बुद्धौ० । अथ नद्याः संबुद्धौ ह्रस्वत्वे सति कथम् एत्वम् ओत्वं च न भवति ? लाक्षणिकत्वादिति चेत्, तदयुक्तम्, 'हे अतिनदे, हे चित्रगो' इत्यत्राप्यभावप्रसङ्गात् ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy