SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १३२ कातन्त्रष्याकरणम् १२८. व्यञ्जनाच्च [२।१।४९] [सूत्रार्थ] व्यञ्जनसंज्ञक वर्ण से परवर्ती प्रथमाविभक्ति - एकवचन 'सि' प्रत्यय का लोप होता है ।।१२८ । [दु० वृ०] व्यञ्जनसंज्ञकात् परः सिर्लोपमापद्यते । बाक्, तडित् । संयोगान्तलोपे सिद्धं चेन्नादेर्धटो लोपः स्यात् । लिङ्गं चानुवर्तते ॥ १२८ ॥ [दु० टी०] उक्तसमुच्चयमात्रे ।। १२८ । चकारः [वि० प० ] व्यञ्जन० । लिङ्गं चानुवर्तते इति मतान्तरेणोक्तम् । अस्य तु मते लिङ्गप्रकरणत्वादेव लिङ्गान्तस्य तत्र लोप इति प्रतिपत्तव्यः । न ह्यनेन लिङ्गाधिकार आदृत इति ।। १२८ । [क० च०] व्यञ्जन० । ननु सूत्रमिदं किमर्थम्, 'वाक् - तडिद्' इत्यादिषु विभक्तिसकारस्योपरि परगमने सति संयोगान्तलोपेनैव सिध्यति । एतदेवाह - संयोगान्त इत्यादि वृत्तिः । ननु संयोगान्तलोपेन सिध्यतीति कथमिदमुच्यते यावता 'राजा, सखा' इत्यादौ संयोगान्तलोपे सति न संयोगान्तावित्यादिनाऽलुप्तवद्भावात् लिङ्गान्तनकारलोपो न स्यात् ? सत्यम्, ‘न संयोगान्तौ ' इति लिङ्ग्ङ्गस्य विशेषणत्वात् । अत्र तु विभक्तिसंबन्धी संयोगान्त इति कुलचन्द्रः। तन्न, “ लिङ्गान्तनकारस्य ” ( २ । ३ । ५६) इत्यत्र पुनर्लिङ्गग्रहणम् उत्तरत्र सामान्यार्थमिति वृत्तौ वक्ष्यमाणत्वात् । तेन " न संयोगान्तौ ० " ( २ । ३।५८) इत्यत्र सामान्यसंयोगान्तलोपेऽप्यलुप्तवद्भाव इति । बस्तुतस्तु कतमोऽयं (कथमयम् ) पूर्वपक्षः संयोगान्तलोपस्यालुप्तवद्भावेऽपि व्यञ्जनमाश्रित्य नकारलोपो बाधकाभावादिति महान्तः सिद्धान्तयन्ति । नन्वादेर्धुटो लोपो भवन् नियमेनैव भवति । तथा च वक्ष्यति - "स्कोऽट्ट - अद्ड् - श्च्युतामादेः" इत्यतो
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy