________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
विदिक्संबन्धिबहुव्रीहौ स्यादित्याह - विदिश इत्यादि । ननु दिशामिति वाच्यवाचकलक्षणसंबन्धे षष्ठीति कथं निश्चितम् दिग्वाचकानां शब्दानां संबन्धिनि बहुव्रीहौ कथं न स्यादित्याह अथवेति । ननु सूत्रमिदं किमर्थम्, दक्षिणावयवत्वाद् दक्षिणा, पूर्वावयवत्वाच्च पूर्वा । दक्षिणा चासौ पूर्वा चेति कर्मधारये विदिगभिधेयायां ‘दक्षिणपूर्वस्यै’ इति पदं सिध्यति । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा दिग् इत्यस्योपसर्जनत्वात् ‘दक्षिणपूर्वायै' इति सिध्यति । एवं सति प्रतिपदोक्तबहुव्रीहिग्रहणार्थं क्रियमाणं “ विदिक् तथा” (२।५।१०) इति सूत्रमपि न कृतं स्यात् ? सत्यम् । प्रतिपदोक्तिर्गरीयसीति दुर्गस्याशयः ।
तत्रोमापतिस्तमाक्षिपति -
-
विदिश्वर्थेषु पूर्वादेः समासोऽत्र विधीयते । विना वाक्यविशेषेण विशेष्यावीदृशौ कुतः ? ॥ दक्षिणस्याश्च पूर्वस्या दिशोरथ उपर्यपि । उदीच्याश्च प्रतीच्याश्च मध्यमत्राप्यसौ भवेत् ॥ कथं चाभ्यां विशेषाभ्यां वर्तते कर्मधारयः ।
१०९
कृते चास्मिन् बहुव्रीहौ दिशां वेत्यपि सुस्थितम् ॥
अस्थायमर्थः - विदिगुरूपेष्वर्थेषु पूर्वादिः शब्दस्यात्र बहुव्रीहिप्रकरणे समासोऽभिधीयते, तस्माद् “विदिक् तथा" (२ । ५ । १०) इति सूत्रं विना ईदृशौ वक्ष्यमाणौ विशेषौ कुतः प्रतीयेते ? विशेषद्वयमेवाह - दक्षिणस्याश्चेति । दक्षिणस्याश्च पूर्वस्याश्च दिशोरध उपरि वा या दिग् इत्यर्थे बहुव्रीहिः स्याद् इत्येको विशेषः । अन्यश्च - उदीच्याश्च प्रतीच्याश्च दिशोर्मध्ये या दिग् इत्यर्थेऽपि बहुव्रीहिः स्यात् । कथं चाभ्यामुक्ताभ्याम् उभाभ्यां कर्मधारयः। यदि कर्मधारय एव क्रियते, न " विदिक् तथा" (२|५|१०) इत्यनेन बहुव्रीहिस्तदा कथमेतद् विशेषद्वयं लभ्यत इत्यर्थः । सूत्रे कृते हि तथा ग्रहणस्य प्रसिद्धप्रयोगमादायैव प्रवृत्तत्वाद् विदिशि अभिधेयायां पूर्वादिगणपठितस्यैव वाधिकरणबहुव्रीहिर्विशिष्यते इति तात्पर्यार्थः । तस्मादेतद् विशेषद्वयार्थमवश्यं “ विदिक् तथा " ( २ | ५ | १० ) इति सूत्रं कर्तव्यम् । तस्मिंश्च सति "दिशां वा " ( २।१।३६) इत्यपि कर्तव्यमिति ।