SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये प्रथमो पातुपादः इति वचनम् । अथवा अधिकारमपेक्ष्य विशेषातिदिष्टत्वमिति । यथा द्विजभोजने दध्यधिकृतं कथंचित् तक्रं दीयते, पुनरपरेयुः प्रकृतमेव दधि दीयते न विशिष्टं तक्रमित्याह - अकारान्तादिति किम् ? सर्वा इति । सर्वग्रहणं 'परस्यादेः' (भोज० प० सू०१६) इत्यादेर्मा भूत् । नन्वियं शार्ववर्मिक न प्रयोजनवती किं चाभेदात्तथावर्णान्तस्यापि न भवति । जस् इकाररूपेण विपरिणमत इति तर्हि प्रतिपत्तिगौरवनिरासार्थमेव सर्वग्रहणम् । केनचिद् दीर्घमादिशता “दीर्घात्, पदान्ताद् वा" (अ०६।१।७५, ७६) इति छस्य द्विर्भावः प्रयोजनमुच्यते । परं च तद् निमित्तं चेति परनिमित्तम् । परनिमित्तं च तदादेशश्चेति प्रतिपाद्य 'परनिमित्तादेशः पूर्वस्मिन् स एव' (कात० प० ४४) ह्रस्व एवेत्यर्थः। तदा ह्रस्वान्नित्यं द्विर्भाव एव स्यादित्यर्थः । यद्येवं सर्वेऽत्रेति कथमकारलोपः, तयाहुरिति कथमय् भवतीति ‘परनिमित्तादेशः पूर्वस्मिन् स एव' (कात० प० ४४) पर इति । परत्वमेव नियम्यते, तेन 'शाले एते, माले इमे' "द्विवचनमनौ" (१।३।२) इति प्रकृतिर्भवति । तस्माद् इह ह्रस्व एवादेशः प्रतिपत्तव्य इति । । १०९ । [वि० प०] जस्० । सर्वग्रहणं समस्तादेशार्थम्, अन्यथा “परस्यादेः" (भोज० प० सू० १६) इति आदेरेव स्यात् । ननु द्वाभ्यां गता आपो यत्रासौ द्वीपः। अन्तर्गता आपो यत्रासौ अन्तरीपः इत्यादि सिद्ध्यर्थं परिभाषेयमङ्गीकृता कैश्चित् । इह तु एते शब्दा रूढित एव सिद्धाः । नहि "ब्यन्तरुपसर्गेभ्योऽप ई:" (अ०६।३।९७) इति वचनमत्रादृतम्, तदस्याः परिभाषाया अनङ्गीकरणादेवादेर्न भविष्यति जसित्यभेदबलाद् वा जस इकाररूपेण परिणमत इत्यर्थः । एतेनैकवर्णत्वाद् अन्ते भविष्यति इत्यपि निरस्तम् । अतः किं सर्वग्रहणेन ? सत्यम् । प्रतिपत्तिगौरवनिरासार्थमेवेदं सर्वग्रहणम्। 'विशेषातिदिष्टः प्रकृतं न बाधते' (कात० प० १९) इति न्यायाद् अकारान्त एवानुवर्तते इत्याह - अकारान्तादिति किम् ? सर्वा इति । इह पूर्वस्मिंश्च विभाषा न वर्तते “अल्पादेर्वा" (२।१।३१) इत्युत्तरत्र वा - ग्रहणात् ।। १०९ । [क० च०] जस्० । ननु ‘आसीनः' इति सिद्ध्यर्थम् “ई तस्यासः' (४।४।६) इत्यनेन 'पञ्चम्या निर्दिष्टे परस्य' (कात० प० २२) इति न्यायाद् आनस्याकारस्य यथा ईर्भवति
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy