________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
[ रूपसिद्धि ]
१. वृक्षात् । वृक्ष + ङसि । प्रकृत सूत्र से ङसि को आत्, “समानः सवर्णे दीर्घीभवति परश्च लोपम्” (१ ।२।१) से क्षकारोत्तरवर्ती अकार को दीर्घ तथा परवर्ती आकार (आत् – आदेश घटित ) का लोप । । १०० ।
१०१. ङस् स्यः [२।१।२२]
[ सूत्रार्थ ]
अकारान्त लिङ्ग से परवर्ती षष्ठी - एकवचन 'ङस्' प्रत्यय के स्थान में 'स्य' आदेश होता है । । १०१ ।
[दु० वृ०]
अकारान्ताल्लिङ्गात् परो ङस् स्यो भवति । वृक्षस्य || १०१ |
[दु० टी०]
७५
ङस् । अत्रापि ङकारः पूर्ववत् ।। १०१ । [क० च०]
ङस् | ननु कथम् -
नवं नवं परिक्षिप्य पुराणमवकर्षतः । अतिजरस्य भिक्षुष्य कन्था वर्षशतं गता ।।
इत्यत्र ‘अतिजरस्स्य, भिक्षुष्य' इति व्यञ्जनान्तादुकारान्ताच्च ङस् स्यः स्यादिति । अत्राकारादेव स्यः स्यादिति उक्तत्वात् ? सत्यम्, ऋषिप्रयोगादिति चिन्त्यम् | यद् वा “इन टा, भिसैस् वा, ङेर्यः, ङसिरात्, ङस् स्यः" इति क्रमिकपाठ एव युक्तः कथं व्यतिक्रमः ? तद् बोधयति - क्वचिद् व्यञ्जनान्ताद् उकारान्ताच्च स्यादिति । । १०१ ।
[समीक्षा]
पाणिनीय और कातन्त्रं दोनों ही व्याकरणों में, 'वृक्ष + ङस्' इस अवस्था में 'स्य' आदेश होकर 'वृक्षस्य' शब्दरूप सिद्ध किया जाता है । कातन्त्रीय सूत्रों में विभक्तिव्यत्यास से ‘अतिजरस्स्य' तथा 'भिक्षुष्य' शब्दरूप भी साधु माने जाते हैं ।