SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् सति धुटोऽसम्भवाद् अन्यत्र चरितार्थत्वाच्चेति । एतच्च वृद्धैरुक्तमित्युच्यते । यदाह व्याघ्रभूतिः एत्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति। भूतपूर्वात् कृतेऽप्येत्वे नित्यमैस्त्वन्यथा सति ॥ इति । वयं तु पश्यामः- परत्वमेव न सङ्गच्छते, यदुभयोरन्यत्र चरितार्थत्वे सति तद् भवति । यथा वृक्षेभ्य इत्यत्र अन्यत्र चरितार्थयोरेत्वदीर्घयोः परत्वादेत्वमिति । न ह्येकस्मिन् विषये सावकाशत्वं विप्रतिषेधश्चोपपद्यते । यथोक्तम् - 'यत्र द्वौ प्रसङ्गौ अन्यार्थावकस्मिन् (विषये) युगपत् प्राप्नुतः स तुल्यबलविरोधो विप्रतिषेधः' इति । अन्यार्थाविति । अन्यत्र चरितार्थावित्यर्थः । किंच यदि वचनबलादेवैत्वे कृतेऽप्यसादेशस्य सावकाशत्वं स्यात् तदा अत एत्वमन्यत्र सावकाशत्वादैस् बाधत इति कथं नोच्यते । तस्माद् वचनप्रामाण्यादेवैत्वमैस् बाधत इति युक्तम् ।। ९७ । [क० च०] भिसै० । ऐसित्यत्र निःसन्देहाय विसर्गो न कृतः, सूत्रत्वात् । वाशब्दो लोपमपि न समुच्चिनोति, वृक्षेभिरिति प्रयोगस्य भाषायामदर्शनात् । ननु विभक्तिविपरिणामः कथं क्रियते, भिसा सह अकारः ऐस् भवतीत्यर्थस्य घटनात्, नैवम् । दृष्टकल्पनां विहाय तृतीयान्ततया अदृष्टकल्पने मानाभावात्, अभेदान्वयस्योचितत्वाच्चेत्याह - अर्थविशादिति । भाषायामपीति, छन्दसि तु दृश्यते - "भद्रं कर्णेभिः शृणुयाम, इति तेभिर्नोद्य सवितेति च" इति । __वाशब्द इत्यादि । ननु पक्षान्तरं समुच्चिन्वन् औसादिकं कथन्न समुच्चिनोति, नैवम् ।ऐस् तावत् कण्ठ्यतालव्यादिः सान्तः, अन्योऽपि कण्ठ्यतालव्यादिः सान्त एवेति समुच्चिनोति, स पुनरेसेव कस्यचिन्मते केवलमैस् क्रियते । तन्मते ऐकारोपदेशबलात् सन्निपातलक्षणपरिभाषां बाधित्वा नित्यं जरसादेशः स्यात् । अन्यस्य तु मते एस् एव क्रियते, एतन्मते सामर्थ्यविरहात् सन्निपातलक्षणपरिभाषां न बाधते । अतो जरसादेशाभावान्नित्यम् अतिजरसैरेव स्यात् । अत्र तु परतन्त्रश्रुतस्य एसः सूचकेन वाशब्देन अतिजरैरिति न साध्यते । एतदेवाह - तेनेत्यादि । ___सन्निपातलक्षणत्वेनेति । ननु कथमिदमुच्यते 'वर्णग्रहणे निमित्तत्वात्' (कात० प० पा० ३४) इत्यस्य विषयत्वात्, यतः स्वरवर्णे जरसादेशो विधीयते । तथा च
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy