________________
कातन्वयाकरणम्
देशसमवायः । 'एवं च शब्दस्य व्यक्तिर्भवति, न च शब्दानां वितत्यावस्थितिरस्तीति । नहि वितत्यावस्थितानां शब्दानां प्रतिनियतदेशसम्बन्धितयोपलम्भः सम्भवति । सामान्यवदिति चेत्, अथ मन्यसे सामान्यमनियतमपि नियतमेवोपलभ्यते, एवं शब्द इति । नैतदेवम्, आधारनियमाभावात् । नहि शब्दस्य नानादेशात्मान आधाराः सन्ति, नापि तदुपालम्भनियमेनोपलब्धिः, तस्मात् स्वभावत एव कुम्भादीनामिव प्रदेशनियमः।
ननु प्रत्यभिज्ञया तद्भागे गृह्यते कथं प्रदेशनियमः ? नैवम्, भिन्नेष्वपि शरीरादिषु प्रत्यभिज्ञोपलम्भात् । ननु तत्र विशेषः प्रत्यक्षः, कथं प्रत्यभिज्ञा, किमिह विशेषो न प्रत्यक्षो येन प्रत्यभिज्ञा । तथाहि, उदात्तानुदात्तस्वरिततया षड्जादिस्वभावतया च परस्परविभक्तात्मानो वर्णाः श्रूयन्ते । न चासीमध्वनिधर्माणः, नहि वर्णव्यतिरिक्तो
ध्वनिरस्ति । वर्णा एव हि नानास्वभावतयोपलभ्यन्ते । तदेवं नित्यानित्ययोरुभयोरपि न्यायो दर्शितो न पुनर्बलाबलालोचनया तत्त्वमवस्थापितम् ।किन्तु एतेन विचारणेनोभयथापि लक्षणं प्रवर्तते इति । [वि० प०]
प्रणम्य सर्वकर्तारं सर्वदं सर्ववेदिनम् । सर्वीयं सर्वगं सर्वं सर्वदेवनमस्कृतम्॥ दुर्गसिंहोक्तकातन्त्रवृत्तिदुर्गपदान्यहम् ।
विवृणोमि यथाप्रज्ञमज्ञसंज्ञानहेतुना॥ तत्रादौ तावदिष्टदेवतानमस्कारप्रतिपादनार्थं शास्त्रस्य सम्बन्धप्रयोजनाभिधानार्थं च वृत्तिकारः श्लोकमेकं चकार-देवदेवमित्यादि । ननु च विप्रतिषिद्धमेतत् । दुर्गसिंहः खल्वेष वृत्तिकरणे कृताभिनिवेशस्तत् कथम् अप्रस्तुत एवेष्टदेवतास्तवे प्रवृत्तः ? न चैतद् वक्तव्यम्, अभिमतदेवतानमस्कारसमुद्भूतधर्मान्निर्विघ्नाभिप्रेतसिद्धिरिति कथं
१.
द्र० - तपरस्तत्कालस्य (म० भा० १1१।७०); वा० प० १११०२-११। वाक्यपदीये (१।७५, ७६) प्राकृत - वैकृतध्वनिभेदो द्रष्टव्यः; कैश्चिद् ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यैः प्रकाशितः (वा० प० १।८९)।
२.