________________
कातन्वयाकरणम् स यदा करणाधिरूढस्तदा प्रत्यक्षादिभिरेव प्रमाणैः सर्वं जानातीति । न हि तस्य भगवतः प्रत्यक्षादीनि प्रमाणानि क्वचिदपि व्याहन्यन्ते | यदा पुनरस्तमितसमस्तेन्द्रियवृत्तिरपराधीन'ज्योतिर्भवति, तदा सर्वमव्यवस्थितमपरोक्षमीक्षते । तमेवं देवानामपि देवं सर्वज्ञ सर्वदर्शिनं शास्त्रादौ प्रकर्षेण नत्वा । संक्षिप्तं व्याकरणं कातन्त्रम् । ईषदर्थे कुशब्दस्य कादेश उच्यते । तन्त्र्यन्ते व्युत्पाद्यन्तेऽनेन शब्दा इति तन्त्रं सूत्रम् । ____ कथन्तर्हि कातन्त्रस्य सूत्रम् ? नहि सूत्रस्य सूत्रं संभवति, येन षष्ठ्युपपद्येत । नैवम्, सूत्रवृत्त्युदाहरणसमुदायेऽपि कातन्त्रं व्यवहत्य लोकः प्रयुङ्क्ते, व्यपदेशिवद्भावाद् वा।
शर्ववर्मणा कृतं शावर्मिकमिति । कातन्त्रस्य शर्ववर्मकृतं व्याख्यानं प्रवक्ष्यामि । तत्र च कातन्त्रस्याभिधेयाः शब्दाः, शब्दव्युत्पत्तिः फलम्, संबन्धोऽप्यभिधानाभिधेयनियोगलक्षणः । अस्य पुनर्वक्ष्यमाणस्य व्याख्येयं कातन्त्रमिति । इदं तु व्याख्यानम्अनयोरपि स एव संबन्धः । कातन्त्रार्थनिर्णयः फलम् । परमार्थतस्तु शब्दव्युत्पत्तिः फलम्, कातन्त्रार्थनिर्णयेन हि शब्दा एव निर्णीयन्ते ।
अथ पुनस्ते शब्दाः' ? ये साधवः । अथ किमिदं साधुत्वं नार्थप्रतिपादकत्वम् ? न ह्यपशब्दा अर्थं गमयन्ति । अथापशब्दाः श्रुताः सन्तः साधुशब्दान् गमयन्ति, ततोऽर्थप्रतिपत्तिरिति । तन्न । तुल्यत्वात् शब्दा हि श्रुताः सन्तोऽपशब्दान् गमयन्ति | ततोऽर्थप्रतिपत्तिरिति किन्नेष्यते ? अथ शब्दानामर्थेषु सङ्केतवशाद् अर्थस्यावबोधनम् अपशब्दानामपि समानम् । न हि तानशब्देषु नियुञ्जते जनाः । यदि च शब्देष्वेवापशब्दानां नियोगस्तदा त एव तेषामर्था इति कथं नार्थं गमयन्ति ?
३
१. 'वृत्तिरनुपाधिज्योति०' इति पाठान्तरम् । २. “का त्वीषदर्थेऽक्षे" (कात० २।५।२५)।
लक्ष्यलक्षणे व्याकरणम् । लक्ष्यं च लक्षणं चैतत् समुदितं व्याकरणं भवति । किं पुनर्लक्ष्यम्, किं वा लक्षणम् ? शब्दो लक्ष्यः, सूत्रं लक्षणम् । ..... नैष दोषः, व्यपदेशिवद्भावेन भविष्यति । ...... उदाहरणं प्रत्युदाहरणं वाक्याध्याहार इत्येतत्समुदितं व्याख्यानं भवति (म० भा० - पस्पशा०, पृ० ६२, ६३)। किं शब्दोपदेशः कर्तव्यः, आहोस्विदपशब्दोपदेशः ?......लघीयाञ्छब्दोपदेशः । गरीयानपशब्दोपदेशः। एकैकस्य शब्दस्य बहवोऽपभ्रंशाः (म० भा० - पस्पशा०, पृ० ३२, ३३)।