SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३१५ कातन्त्रपरिशिष्टम् ११२. समः कृञ्यस्वार्थे स्वस्मादर्थान्तरे वर्तमाने कृञि समः परः सुट् परादिर्भवति । पदानि संस्कुरुते, व्युत्पादयतीत्यर्थः । लवणेन संस्कुरते व्यञ्जनम् । प्रकर्षयतीत्यर्थः । अस्वार्थ इति किम् ? संकृतिः । कृञत्र स्वार्थ एव समा विशिष्यते ।। ११२ । ११३. पर्युपात् समूहे परेरुपाच्च समूहेऽर्थे वर्तमाने कृञि सुट् परादिर्भवति । उपस्कृतं रथानाम् । परिष्कृतं रथानाम् । समूह इत्यर्थः । संस्कृतं रथानामिति समूहे पूर्वेण ।। ११३ । ११४. उपात् प्रतियत्नविकृत्यध्याहारेषु एष्वर्थेषु कृजि उपात् सुट् परादिर्भवति । उत्कर्षाधानं प्रतियत्नः । केशानामुपस्कुरुते । स्वरूपान्यथात्वं विकृतिः। उपस्कृतान्यङ्गानि मुमूर्षोः। गम्यमानार्थस्य कस्यचिदेकदेशस्य स्वरूपेणोपादानमध्याहारः। उपस्कृत्य व्याचष्टे || ११४। ११५. किरिच्छेदे छेदविषये किरतावुपात् सुट् परादिर्भवति ।उपस्किरति व्रीहीन् छेत्तुम्, उपस्कारं व्रीहयो दायन्ते, विक्षिप्येत्यर्थः । इह क्वार्थे णम् इष्यते ।। ११५ | ११६. प्रतेश्च हिंसार्थे हिंसाथै किरतौ प्रतेरुपाच्च सुट् परादिर्भवति । चौरं प्रतिस्किरति । 'उरोविदारं प्रतिचस्करे नखैः' (शिशु०१/४७) । व्यालानुपस्किरति, ‘अरीनुपस्कर्तुमयं ममोद्यमः' ।। ११६। ११७. अपाच्चतुष्पाच्छकुनिषु हृष्टभक्षनिवासार्थिवालेखने हृष्टेषु भक्षार्थिषु निवासार्थिषु च कर्तृषु चतुष्पाच्छकुनिष्वालेखने वर्तमाने किरतावपात् सुट् परादिर्भवति । अपस्किरते षण्डो हृष्टः । अपस्किरते कुक्कुटो भक्षार्थी, अपस्किरते श्वा निवासार्थी । आलिखतीत्यर्थः । आलेखन इति किम् ? अपकिरति तृणानि श्वा निवासार्थी ।। ११७। ११८. प्रात् तुम्पि गोकर्तृ के गोकर्तृके तुम्पतौ प्रात् सुट् परादिर्भवति । प्रस्तुम्पति गौः । गोकर्तृक इति किम् ? प्रतुम्पत्यश्वः ।। ११८।
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy