________________
कातन्त्रव्याकरणम्
७८. न नञ्वृत्त्यकोरेषसात्
एषात् साच्च परस्य विसर्जनीयस्य नञ्समासेऽकि च लोपो न भवति । अनेषो गतः, असो गतः । ' प्रतीयते सम्प्रति सोऽप्यसः परैः' (शिशु० १ / ६९ ) । एषकः कृतः, सकः कृतः। एकवचनम् अयथासंख्यार्थम् । कथम् अनेष आस्ते, सक आस्ते ? श्रुतत्वादेषसाश्रयो लोपो बाध्यते ॥ ७८ ॥
७९. वा गीर्धरह्नां पत्यौ रः
३०८
एषां विसर्जनीयस्य पत्यौ वा रेफो भवति । गीपतिः, गीष्पतिः । धूपतिः, धूष्पतिः । गीष्पति-धूष्पत्योः कस्क आदित्वाद् नाम्युपधविसृष्टस्य मूर्धन्यः । अपरे तु कस्क आदौ न पठन्ति । अहर्प्पतिः, अहः पतिः । भुवर्लोको धूर्पुत्रो वेत्युदाहृतमन्यैः । स्वर्पतिः स्वःपतिरिति काश्मीरकेण | तदिह 'उषर्बुधः' इति च पृषोदरादित्वात् । मण्डूकप्लुत्या समासानुवर्तनाद् इह न स्यात् । इयं गीः पतिरस्याः धीषणः । इयं धूः पतिरस्याः वाहीकः ॥ ७९ ॥
८०. अह्नोऽरात्राद्यनघोषे
रात्रादेरन्यस्मिन्ननघोषे स्वरे घोषवति च अह्नो विसर्जनीयस्य रेफो भवति । अहरत्र, अहरूर्ध्वम्, अहर्भूतम्, अहर्गणः । रात्रादिनिषेधः किम् ? अहश्च रात्रिश्च अहोरात्रः । अहोरूपम् । अहोरथन्तरं साम । 'अहोरात्रिं च शेते' इत्यपीच्छन्ति । भाष्ये त्वेतन्न चिन्तितम् । एष्वेव निषेधो रात्रिरूपरथन्तरेष्विति शाकटायनीये त्रिमुनिमते च, तस्माद् अहारजनीति रत्वं स्यादेव । चान्द्रे तु रेफमात्रेऽसौ निषेध:, तथाच 'यातः शनैः कृत्स्नमहोरथेन' इति प्रत्युदाहृतं तैः । अनघोष इति किम् ? अहः साधु ||८०| ८१. न सिलोपो व्यञ्जनात्
व्यञ्जनात् सिलोपे अह्नो रो न भवति । हे दीर्घाहो ग्रीष्म, दीर्घाहा निदाघः । हे हस्वाहो हेमन्त, ह्रस्वाहा माघः, , हे ह्रस्वाहोऽपेहि, दीर्घाहा आप्तः । स्त्रीपुंसयोरह्नः सौ दीर्घमिच्छन्ति । व्यञ्जनादिति व्यञ्जनाच्चेत्ययं लोपो लक्ष्यते । इह तु स्यादेव । अहर्वत्, अहर्वान्, अहर्वाते । अस्यादेः स्वरघोषवतोः प्राप्तौ प्रतिषेधोऽयम् ॥ ८१ ॥
८२. स्यादौ च
घोषवदादौ स्यादौ च अह्नो रो न भवति । अहोभ्याम्, अहोभिः, अहोभ्यः ।। ८२ ।