SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ॥श्रीः॥ परिशिष्टम् - १ आचार्यश्रीपतिदत्तप्रणीतम् कातन्त्रपरिशिष्टम् सन्धिप्रकरणम् नमो गणेशाय। संसारतिमिरमिहिरं महेशमजमक्षरं हरिं नत्वा । विविधमुनितन्त्रदृष्टं ब्रूमः कातन्त्रपरिशिष्टम् ॥ १. वृद्धिरादेशस्य आदेशस्य वृद्धिर्भवतीत्यधिक्रियते । प्राग् वृद्धिग्रहणं मङ्गलार्थम् ।। १ । २. स्वस्येरेरिणोः ई रेरिणोः परयोः स्वशब्दादेशस्य वृद्धिर्भवति । स्वैरम्, स्वैरी |स्वैराद् गुणमात्रादिना सिद्धे ईरिग्रहणमीरिण्येत्वश्रुतिनिवृत्त्यर्थम् ।।२। ३. अक्षस्योहिन्याम् ऊहिन्याम् परतोऽक्षशब्दादेशस्य वृद्धिर्भवति । अक्षौहिणी । “पूर्वपदस्थाद्" (कात०परि० - ण०२) इति णत्वम् ।।३। ४. प्रस्योढोढ्योश्च द्वन्द्वेऽग्नेः पूर्ववत्त्वमनित्यम्, कालव्रीह्योरिति निर्देशात् । 'ऊढ-ऊढि' इत्येतयोः परयोः प्रशब्दादेशस्य वृद्धिर्भवति । प्रौढः, प्रौढिः । ऊहेऽपि शाकटायनस्य' – प्रौहः। प्रौढिशब्दादर्शआदित्वादति कृते 'प्रौढो भावः' इति क्तार्थावगमो न स्याद् इत्यूढग्रहणम् । कथं 'प्रौढो भारः, प्रोढी रथानाम्' ? आपूर्वेण स्यात् ।।४।
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy