SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २४७ सन्धिप्रकरणे पचमो विसर्जनीयपादः [रूपसिद्धि १. कश्चरति । कः + चरति । प्रकृत सूत्र से चकार के पर में रहने पर विसर्ग को शकारादेश । २. कश्छादयति । कः + छादयति । छकार के परवर्ती होने पर पूर्ववर्ती विसर्ग के स्थान में छकारादेश || ६२ । ६३. टे ठे वा षम् (१।५।२) [सूत्रार्थ] ट् अथवा ठ् के पर में रहने पर पूर्ववर्ती विसर्ग के स्थान में मूर्धन्य षकारादेश होता है ।।६३। [दु०वृ०] विसर्जनीयष्टे वा ठे वा परे षम् आपद्यते । कष्टीकते, कष्ठकारेण । प्रत्येक वाऽत्र समुच्चये बालावबोधार्थम् ।। ६३। [दु०टी०] टे ठे० । प्रत्येकं वा समुच्चये बालावबोधार्थम् इति विकल्पार्थं तु न भवति, प्रतिसूत्रमुपादानात् “वर्गे तद्वर्गपञ्चमं वा" (१।४।१६) इति विभाषानुवृत्तेर्वा । ननु वाशब्देऽप्यतिक्रियमाणे किमत्राविस्पष्टं भवेत् । टठयोरित्युक्ते षष्ठ्यपि भवितुमर्हति । षमिति कर्मपदं विसर्जनीयं कर्तारमपेक्षते । नैवम्, क्रियाकारकाकुशलानां बालानामवबोधार्थमिति ।।६३ । [वि०प०] टे ठे० । प्रत्येकमित्यादि । विकल्पार्थं तु न भवति, प्रतिसूत्रम् उपादानात् । "वर्गे तद्वर्गपञ्चमं वा" (१।४।१६) इति विभाषानुवृत्तेर्वा । ननु यदि प्रत्येकं वा समुच्चयो न स्यात् तदा किमिहाविस्पष्टं भवति ? सत्यम् । "टठयोः षम्" इति कृते षष्ठीमपि प्रतिपद्येत, टठयोः स्थान इति । तदयुक्तम् । षमिति कर्मपदम्, तच्च कर्तारमन्तरेण न संभवतीति विसर्जनीयम् अपेक्षते । ततो विसर्जनीयः षमापद्यते, टठयोः परयोरिति सप्तम्येव निश्चीयते । तथा पूर्वोत्तरयोरपि योगयोरिति? सत्यम्, एवं तर्हि क्रियाकारकाकुशलानां बालानामवबोधार्थम् । न खलु ते कर्तारमन्तेरण कर्मणः सम्भव इति प्रतिपत्तुं क्षमन्त इति ।। ६३।
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy