SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २४० कातन्वव्याकरणम् [दु० टी०] मोऽनु० । मकारः पुनरन्त इति प्राग् योगेषु पदान्त एव सम्भवतीति पदान्तशब्दाविर्भावार्थ उक्तः । इह पुनरन्तशब्दो विशेषणतयाऽवश्ययोज्य इत्यर्थः । तथा च व्याख्यातमेव ‘मो राजि समः क्वौ' इति न वक्तव्यम् इत्याह - अनुस्वार इत्यादि । अथवा लोकोपचारात् सिद्धोऽयं संज्ञाशब्दः । तथा चाह – 'यो राजसूययाजी य ईश्वरो मण्डलस्य यश्चाज्ञया एव राज्ञः शास्ति स सम्राड् विज्ञेयः' ।। ६० । [वि० प०] मोऽनुस्वारम् । “नोऽन्तश्चछयोःशकारमनुस्वारपूर्वम्" (१।४।८ ) इत्यत्रान्तग्रहणमुत्तरत्र विरतिप्रतिपादनार्थमित्युक्तम् । सा च विरतिः पूर्वयोगेष्वव्यभिचारिण्येव । यच्च तेषु पदान्तविवरणं तदधिकारवशाद् इह पुनरवश्यं विरतिप्रतिपादनार्थम् अन्तग्रहणं योजनीयम् इत्याह - नकारः पुनरन्तः इति । अन्तो विरतिभूतो न पुनः पदान्त एवेत्यर्थः । तेन पदमध्येऽपि यत्र विरतेरभिधानम् अस्ति, तत्रानेनैवानुस्वार इति । 'गम्यत' इति प्रकृतिभागमात्रे विरतिरत्र नाभिधीयते इति भावः । ___"मो राजि समः क्वौ" (पा० ८।३।२५) इति समो मकारस्यानुस्वारापवादार्थं मकारः कश्चिदाह, स इह कथम् इत्याह- अनुस्वार इत्यादि । संराजते इति क्विप् "विरामे हशषछान्तेजादीनां डः" (२।३।४६) । अनित्यत्वस्य लक्ष्यानुरोधाद् राजतौ क्विबन्ते परे समो मकारस्यानुस्वारो न भवतीत्यर्थः । अथवा संज्ञाशब्द एवायं लोके प्रसिद्ध इति किमनित्यत्वकथनेनेति । तथा च विश्वदत्तः - यो राजसूययाजी ईश्वरो मण्डलस्य यश्चाज्ञयैव राज्ञः शास्ति स सम्राड् विज्ञेयः ।। ६० । [क० च०] मोऽनु० । अन्त इति किम् ? गम्यत इति वृत्तिः । ननु गम्यत इति कथं प्रत्युदाहृतम्, यस्मादिहान्तग्रहणाभावेऽपि पदान्ताधिकारादत्रापि न प्राप्तिरिति ? सत्यम् । “नोऽन्तश्छचयोः' (१।४ १८) इत्यन्तग्रहणादेव पदान्ताधिकारनिवृत्तिः। एवं च सति अत्रान्तग्रहणसम्बन्धेन किमित्येतदेवाह - अन्त इत्यादि । ननु तथापि कथमिदं प्रत्युदाहृतं "मनोरनुस्वारो धुटि" (२।४४४) इत्यत्र धुग्रहणस्य व्यावृत्तिबलादेव न भविष्यति? सत्यम् । तद्धि धुड्ग्रहणं हन्यत इति व्यावृत्त्यैव चरितार्थम्, कथमनेन प्राप्तमनुस्वारं व्यावर्तयितुमुत्सहत इति केचित् । अन्ये
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy