________________
सन्धिप्रकरणे चतुर्थो वर्गपादः
२०. ६. तच्छ्मशानम्-तश्मशानम् । तत् + श्मशानम् । वर्गीय प्रथम वर्ण त् से परवर्ती श् को वैकल्पिक छ् आदेश- तच्छ्मशानम् | “लानुनासिकेष्वपीच्छन्त्यन्ये"।
वस्तुतः कातन्त्र के अनुसार ल्- अनुनासिक के पर में रहने परे श् को छ आदेश नहीं होता है (द्र०, पञ्जी- १।४।६) ।।४८।
४९. तेभ्य एव हकारः पूर्वचतुर्थं नवा (१।४।४) [सूत्रार्थ]
उन्हीं पदान्तवर्ती वर्गीय प्रथम वर्गों से परवर्ती हकार के स्थान में पूर्वचतुर्थ वर्ण आदेश विकल्प से होता है ।।४९।
[दु० वृ०]
तेभ्य एव वर्गप्रथमेभ्यः पदान्तेभ्यः परो हकारः पूर्वचतुर्थमापद्यते न वा । वाग्घीनः, वागहीनः । अज्झलौ, अज्हलौ । षड्ढलानि, षड्हलानि । तद्धितम्, तहितम् । ककुब्भासः, ककुब्हासः । हकार इति किम् ? तत्कृतम् । तेभ्योग्रहणं स्वरय-व-रपरनिवृत्त्यर्थम् । तेन वागलादयति । एवेति तृतीयमतव्यवच्छेदार्थम् ।।४९।
[दु० टी०]
तेभ्यः। तेभ्योग्रहणमित्यादि । यथा वर्गप्रथमेभ्यः इत्यनुवर्तते तथा स्वरयवरपर इत्यपीति, अतस्तेभ्योग्रहणेन वर्गप्रथमाः' इत्यनुकृष्यते । इतरस्य तु निवृत्तिरादिति । तेनान्यपरोऽपि हकारः पूर्वचतुर्थम् आपद्यते - वाग् घ्लादयतीति । सूत्रकारमते नेदमुपपन्नम् । मतान्तरे तु तेभ्योग्रहणमनर्थकमेव। नहि अस्वरयवरलानुनासिकपरः खलु हकारः सम्भवतीति अन्ययोगव्यवच्छेदाभावादेवग्रहणमनर्थकम् । __अथ स्वयोगव्यवस्थापकं यथा 'शङ्खः पाण्डुर एव' इति । तत् किं तर्हि तृतीयमतव्यवच्छेदार्थमिति तृतीयादपि वक्तव्यमिति कश्चिदाह । तदसत् । वर्गप्रथमेभ्य एव “पदान्ते धुटां प्रथमः" (३।८।१) इति वचनात् । पूर्वग्रहणं किमर्थम् ? 'श्रुतानुमितयोः श्रौतसम्बन्धो विधिर्बलवान्' (काला० परि० ११६) इति । य एव पूर्वश्रुतस्यैव चतुर्थो भविष्यतीति चेत्, प्रतिपत्तिरियं गरीयसीति । तेभ्योग्रहणेन प्रागधिकारनिवृत्तिरिति । नवाग्रहणमिहेति न चोद्यम्, निमित्तानुकर्षणेन हि निमित्तमेव निवर्तत इति ।।४९।