SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सन्धिप्रकरणे द्वितीयः समानपादः ज्ञापकादिति कुलचन्द्रः। सामीप्यार्थेनादिशब्देन बहुव्रीहिरेव नास्तीति शिवदेवादयः । नेयं शङ्काऽपि, सा च शास्त्रे दूषणमिति । तदुक्तम् – व्याख्यानतो विशेषार्थप्रतिपत्तेर्नहि सन्देहादलक्षणम् (कात० परि० वृ० ६५) इति । ' ऋजवस्तु विशेषणसम्भवे उपलक्षणस्यान्याय्यत्वादिति तद्गुणसंविज्ञानबहुव्रीहिरेव युज्यते, किं तत्र यत्नेन । अतस्तद्गुण एव यलस्योचितत्वात् । मूर्खास्तु 'अय्' इत्यस्य समुदायावयवत्वात् तद्गुणसंविज्ञानबहुव्रीहिः । नहि समुदायोऽवयवमपहाय तिष्ठति, तस्माद् व्याख्यानमित्यस्यायमेवाशयः इत्याहुः । तदसङ्गतम्, नहि अवयवार्थनिश्चये सति तद्गुणसंविज्ञानसंशयनिरासाय पञ्जीकृता व्याख्यानाद् इत्युक्तम्, किन्तु अवयवार्थनिश्चयनिमित्तम् । कुलचन्द्रोऽपि तदर्थम् एव ज्ञापकमाश्रितवानिति । अथ यवग्रहणं किमर्थम् ? निर्दिष्टानाम् अयादीनां लोपनिरासार्थम् । न च वक्तव्यं प्रकृतिवचनमनर्थकमिति योषिते आहुरित्यत्र यलोपे सति तकारस्य तृतीयत्वव्यवच्छेदेनैव सार्थकत्वात् । नच वर्णान्तस्य विधिरिति न्यायादन्तस्यैव लोप इति वाच्यम्, नानर्थक्ये वर्णान्तस्य विधिरिति न्यायात् । नैवम्, (योषिते आहुः) तयाहुरित्यत्र ‘असिद्धं बहिरङ्गम्' (कात० परि० वृ० ३३) इति न्यायात् तृतीयो न भवति, किन्तत्र प्रकृतिग्रहणेन । तस्मात् प्रकृतिवचनं दीर्घात् परलोपार्थम् । यदि समुदायस्य लोपस्तदा दीर्घात् परलोपप्रसङ्ग एव नास्ति किमनेन नकारमात्रमेव विदध्यात् । तस्मात् प्रकृतिवचनादेव यवयोरिति गम्यते, किं यवग्रहणेन इति ? सत्यम्, एवं सुखार्थम् । ननु प्रकृतिग्रहणमप्यनर्थकम्, असिद्धवद्भावेनैव सिद्धत्वात् ? सत्यम्, इदं च सुखार्थम् । तर्हि गौरवनिरासार्थम् इति यवयो.पे तु प्रकृतिरिति वचनाद् अर्थाद् आदौ लोप्ये भविष्यति किं लोपग्रहणेन ? सत्यम् । अर्थवशात् प्राप्तस्य लोपस्य शब्दानुपात्तत्वाद् अप्राधान्यम् । तथा च सति प्रकृतिशब्देन प्रधानेन सह नवाशब्दस्य सम्बन्धः स्यादिति लोपग्रहणम् । ननु अन्तशब्दोऽत्रावयववचनः । अवयवश्चात्रायादेशस्वरूपस्तत् कथम् अयादिर्वर्तते ? सत्यम् । अन्तशब्दोऽत्र धर्मवृत्तिरिति । पदान्त इति विषयसप्तमीयम्, तुशब्दोऽत्र वाक्यभेदे, तेन प्रकृतिर्नित्यैव । अत एव उत्तरत्र नवेति न वर्तते । एतेनात्र यवौ लोप्याविति कृते अभिमतं सिध्यति । यदुत्तरत्र लोपग्रहणं तन्नवाधिकारनिवृत्त्यर्थमिति मूर्खप्रलपितम् अपास्तम् । तुशब्दो भिन्नवाक्ये,
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy