________________
१६२
कातन्त्रव्याकरणम्
निर्णीतमिति किन्तेन पाणिनि- कात्यायन - भाष्यकाराणामुत्तरोत्तरप्रामाण्यम् इति स्मृतेः । तदुक्तं न्यासकृता मुनिद्वयातिशायिनो भगवतो भाष्यकारस्य वचनं कथमुपेक्षामहे इति । अतो भाष्यकारविरोधेन तेषामपप्रयोगाद् इति भावः । ननु कथं 'वारि ईहसे, मधु ऊर्ध्वम्' असवर्ण इत्यस्य व्यावृत्त्या सवर्णे सन्धेर्नित्यं प्राप्तत्वात् ? सत्यम् । विवक्षितश्च सन्धिर्भवतीति सन्धिशब्देनात्र संहिता सन्धिकार्यं च विवक्ष्यते, ततश्च उभयमेव विकल्प्यते । तत्र 'वारि ईहसे' इत्यत्र संहिताभावादेव न सन्धिः । यत्र तु संहिता विकल्प्यते तत्र सन्धिकार्यं च विकल्प्यते । ततो यथायोगं सन्धिरिति ।
वातायनविषय एवेति । वातायनशब्देनात्र संज्ञोपलक्ष्यते, तेन गवाक्षो नाम राक्षसः कश्चिद् इत्यत्रापि नित्यमकारवर्णागमः । वातायनशब्दस्यात्र संज्ञोपलक्षणत्वात् । वर्णागम इत्यादि । तथा च "अक्षे नाम्नो वा" इति 'श्रीपतिसूत्रम् । वर्णागम इति । यथा कौ जीर्यतीति कुञ्जरः । कुशब्दादनुस्वारः । विपर्ययो यथा हिनस्तीति सिंहः | वर्णविकारो यथा पञ्जिका | षड्भिरधिका दश षोडश | दस्य डः, षस्य उः, । वर्णनाशः पृषोदरीति । पृषद् उदरमस्या इति वाक्ये तस्य लोपः । धातोस्तदतिशयेन योगःतयोर्वर्णविकारनाशयोरतिशयेन द्विस्त्रिः प्रवृत्तिः । अर्थस्यातिशयोऽर्थविशेषस्तेन सह धातोर्योगः । मह्यां रौतीति मयूरः डप्रत्ययेऽन्तलोपे हकारस्य यकारः, ईकारस्य ऊकारः इति मयूरः। प्राणिविशेषे रवक्रियासम्बन्ध इति कुलचन्द्रः। त्रिः प्रवृत्तिर्यथा भ्रमरः उद्धृम्य रौति इति वाक्ये डप्रत्ययः । ततो वर्णनाशः ।।३८।
[समीक्षा]
'गौ + औ' तथा 'गौ + अस्' ऐसी स्थिति में पाणिनि और शर्ववर्मा दोनों ही आचार्य औ के स्थान में ‘आव्' आदेश करते हैं, परन्तु कलाप की सूत्ररचनापद्धति से जो सरलता उपपन्न होती है, उसका विवेचन उक्त सूत्रों की समीक्षा में द्रष्टव्य है।
[विशेष]
वृत्तिकार दुर्गसिंह ने कहा है कि “अवर्ण इवणे ए - ए अय्-औ आव्" आदि सूत्रों को जो पृथक् रूप में पढ़ा गया है तथा उनमें सन्धि नहीं की गई है, वह
१.
साम्प्रतं कातन्त्रपरिशिष्टे सूत्रं दृश्यते -
"असे नाम्न्येव" (कात० परि०- सं० २४)।