________________
१४४
कातन्त्रव्याकरणम्
सिद्धस्यैव विशेषणाकाङ्क्षा भवति । नहि स्वयमसिद्धं कथं परान् साधयति परस्य विशेष्यो भवति।
यद्येवं धातोः प्रागुपसर्गेण सम्बन्ध इत्यस्य क्व विषय इत्याह - किं च इति। तथापि प्रकृतेः पूर्वं पूर्व स्याद् अन्तरङ्गम् (काला० परि० सू० ९८) इति न्यायाद् भविष्यति । एवं व्याख्यायते- यदि प्राग् धातोरुपसर्गेण सम्बन्धस्तदा "इणे त्योन" (कात० परि०, सं० १३) इत्यत्र इण्ग्रहणमनर्थकं स्याद् आदाविण्धातोरुपसर्गेण सम्बन्धे एकारे परे उपसर्गावर्ण एव नास्ति, कथं तल्लोपप्रतिषेधोऽर्थवानिति | अस्मादेतद् वक्तव्यं ज्ञापयति – सन्नपि प्राग् धातूपसर्गयोः सम्बन्धस्तथापि प्रत्ययकार्यात् प्राक् सन्धिर्नास्तीति । एतदेव मनसि कृत्वाह - तथापीत्यादि । अस्मिन् पक्षे किञ्चेति पक्षान्तरम् इति । अस्मिन् दर्शने इत्येतदेवाह -
धातुः सम्बन्धमायाति पूर्वं कादिकारकैः।
उपसर्गादिभिः पश्चादिति कैश्चिनिगयते॥ इत्यस्मिन् पक्षे इत्यर्थः । नन्वस्मिन् पक्षे कथं "नेर्विश्" (३।२।४२-१) इत्यात्मनेपदोत्पत्तिः कथं चाधिशय्यत इत्यत्र कर्मण उक्तार्थता ? सत्यम् , व्याकरणस्य सर्वपारिषदत्वात् कुत्रचित् कश्चिदेव पक्ष आद्रियते इति न दोषः । एतेनाधिशय्यते, नेर्विश् इत्यादयोऽपि सिद्धाः । ननु 'उपेकीयति' इत्यत्र तृतीयप्राप्तौ ‘असिद्धं बहिरङ्गमन्तरङ्गे' (कात० परि० सू० ३५) इति न्यायेन कथं सिद्धान्तितम्, “न पदान्त०" (कात० परि० सू०११) इत्यादिना स्थानिवद्भावनिषेधादसिद्धवद्भावस्याविषयत्वात् । अन्यथा स्थानिवद्भावनिषेध एव व्यर्थः स्यात् ? सत्यम् । “न पदान्त०" (कात० परि० सू० ११) इत्यत्र ना निर्दिष्टस्यानित्यत्वात् (काला० परि० पा० ६७) पदान्तकार्येऽपि क्वचित् स्थानिवद्भावावकाश इति ।
__ यद्येवम् असिद्धवद्भावादिति वक्तुं युज्यते ? सत्यम्, अस्मिन् वक्तव्ये इदमप्युक्तं निर्विशेषत्वात् । ओष्ठौत्वोरित्यादि वृत्तिः । ननु द्वन्द्वे सति असखिरग्निरित्यनेन ओतुशब्दस्य पूर्वनिपातो भवितुम् अर्हतीति ? सत्यम् । “हः कालबहुव्रीह्योः" (४।२।६४) इति ज्ञापकादनित्यमिति सूचितम् । ओम्शब्दस्याव्ययत्वाद् असमासे दर्शितमिति । ननु कथमिदमुच्यते, नहि अव्ययेन सह समासो नास्तीति । यदि च नास्ति तत् कथम् 'परमोम्, उत्तमोम्' इति ? सत्यम् ।