SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सन्धिप्रकरणे द्वितीयः समानपादः १३९ रूपापत्तेः । अत्रोच्यते - नहि वयं क्रियाविषये एवशब्दार्थमात्रस्यैव वर्जनमङ्गीकुर्मः, किन्तु प्रसिद्धत्वादवधारणरूपार्थस्यैवेति । तथा च टीकायाम् नियोगो व्यापारस्तद्विषये एवशब्दवाच्यो नियमो न वर्तते तदा पूर्वलोपः । नहीदं भगवतः पाणिनेः सूत्रम्, किन्तर्हि वक्तव्यमेव । तच्च लक्षणमनुसरतीति भावः । तथा च न्यासकारोऽप्याह - एवशब्दो नियमे वर्तते । यदा तमेव नियमं क्रियागतं न ब्रूते तदा पूर्वलोपः । यत्तु एवेऽनवधारणे इति काश्मीरकाः पठन्ति, तेषामपि मते व्यापारविषय एवावधारणं वर्जनीयमिति बोध्यम् । एवं च काश्मीरकवचनं यथाश्रुतमेव सङ्गच्छते । श्रीपतेरेवे इवार्थ इति वचनमुपेक्षणीयम् । अनियोगगतेऽनवधारणेऽपि न्यासायभिमतस्य पूर्वलोपस्यासिद्धिप्रसङ्गात् । किं च यथाद्योङ्कारमाह इत्यादौ अनुकरणेऽपि “ओमि च नित्यम्" (कात०, परि०, सं० १६) इत्यस्य विषयस्तथा काश्मीरकमतेऽपि 'अद्येव' इत्यादौ पूर्वलोपः प्रमाणमिति । श्रीपतिमतेऽपि स्वरूपप्रतिपादकेऽनुकरणे इवार्थाभावात् कथं पूर्वलोप इत्येतत् सर्वं विरुद्धमिति । ____ ममैव धनम्, सैव सक्, वपुरतनु तथैव संवर्मितम्, अपदोषतैव विगुणस्य गुणः, मिथ्यैव श्रीः श्रियम्मन्या' इत्यादिषु पूर्वलोपः स्यादिति श्रीपतिना यद् दूषणमुक्तम्, तत्र यदि क्रियापदं न श्रूयते तदैव इदं संगच्छते । अत्रावश्यमेव क्रियापदमध्याहार्यम्, नहि क्रियारहितं वाक्यमस्ति । ननु ‘अद्येव, इहेव' इत्यत्रापि अध्याहार्य क्रियापदस्य सम्बन्धात् कथं पूर्वलोप इत्याह - स्वरूपकथनमित्यभिप्रायः। ___ यथा अयं दण्डो हरानेन इत्यत्र क्रियापदमन्तरेणापि तदन्वयः, तद्वदत्रापीति भावः । यद् वा 'कदा गन्तव्यम्, कुत्र स्थातव्यम्' इत्यादिप्रश्ने 'अद्येव, इहेव' इत्यादिप्रयोगो बोध्यः । एतत्तु नातिपेशलम् । यतः क्रियामन्तरेणाद्येहेति अधिकरणं न घटत इति । अत्र ये सुधियस्ते सिद्धान्तयन्तु स्वस्येत्यादि । ननु कथमेतद् दृष्टान्तयोस्तुल्यत्वम् । नहि गुरुशब्दवद् अकारशब्दो नित्यसापेक्षः ? सत्यम् । यथा तत्र सापेक्षेऽपि समासस्तद्वदत्रापि सापेक्षत्वमाश्रित्य दृष्टान्तितम् । स्वैरं कुलमित्यादि । ननु बहुव्रीहेरभिधेयलिङ्गत्वात् 'स्वैरः पुमान्' इत्येव स्यादित्याह – क्रियाविशेषणमिति कुलचन्द्रः। तन्न । अभिप्रायापरिज्ञानादभिधेयलिङ्गस्याप्यनिवार्यत्वात् । तथा च श्रीपतिनापि स्वैरः, स्वैरीत्युदाहतम् । तस्मात् क्रियाविशेषणं वेति हेमकरः । ननु केचित्तु स्वैरं देवदत्तो गच्छतीति कथं नपुंसकलिङ्गं बहुव्रीहेरभिधेयलिङ्गतया दृष्टत्वादित्याह - क्रियाविशेषणं वेत्याहुः । ननु ईरणम् ईरः सोऽस्यास्तीति
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy