SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १२ कातन्त्रव्याकरणम् त्रिलोचनदासस्य कातन्त्रवृत्तिपञ्जिकायाः, सुषेणविद्याभूषणस्य कलापचन्द्रस्य च सम्पादनम् आयोजितमासीत् । अत्रापि चानिवार्यं महत्त्वपूर्णमासीद् हिन्दीभाषायां व्याख्याचतुष्टयस्यास्य विषयाणां वैशिष्ट्यप्रदर्शनं पाणिनीयेन व्याकरणेन सह समीक्षाकार्यं च । परं कार्यमिदं दुरूहं समयसाध्यं चासीत्, तथापि पाणिनीये महाभाष्यकाशिकावृत्ति--न्यास-पदमञ्जरीणामनुशीलनानुभवबलेन तादृशस्य 'दुर्गवृत्ति- टीकापञ्जिका कलापचन्द्र' इत्येतस्य व्याख्याचतुष्टयस्याध्ययनादिबलेन च सोत्साहमहं कार्यमिदं सम्पूरयितुं संकल्पितवान् । कार्यस्य गौरवम् उपयोगितां व्यापकतां चाकलयन्ती प्रकाशनसमितिरन्ते मामकीनां योजनामङ्गीचकार, चतुर्षु खण्डेषु ग्रन्थस्यास्य प्रकाशनं च निश्चिकाय, प्रतिवर्षं खण्डस्यैकस्य प्रकाशनं यत् संकल्पितं समित्या, तस्यैव फलभूतं सन्धिप्रकरणात्मकमिदं मुद्रितं प्रथमं खण्डं करतलगतमाभाति | सम्पादनकार्यस्याधारा भवन्ति हस्तलेखाः । एषां चतुर्णां ग्रन्थानां बहवो हस्तलेखा मया अधीता विविधलिपिनिबद्धास्तत्तत्संस्थासु स्वयमुपस्थाय । वङ्गाक्षरेषु ये मुद्रिता ग्रन्था उपलभ्यन्ते तेष्वपि केचित् शतवर्षपूर्वकालिकाः सपादशतवर्षपूर्वकालिका वा सन्तीति तेऽपि हस्तलेखवदेव संजातास्तस्मादक्षरपरिचयसौविध्याय सम्पादनार्थं मया त एव ग्रन्था निर्धारिताः । सन्धिप्रकरणव्याख्यात्मकं यद् ग्रन्थद्वयं मत्पार्श्वे वर्तते तत्र प्राथमिकपत्राणामभावात् प्रकाशनपरिचयो नैव परिज्ञायते । पत्राणां जीर्णतातिशयवशाद् यान्यक्षराणि एकस्मिन् ग्रन्थे नोपलभ्यन्ते तेषामन्यत्रोपलब्धिवशादभावो नैवानुभूयते । मुद्रणदोषवशाद् यत्र क्वचित् कश्चिदंशस्त्रुटितो भवति, स ग्रन्थान्तरपाठतुलनयाऽर्थसमीक्षया च यः समीचीनो विभाव्यते स एवेोपस्थाप्यते । कृतज्ञताप्रकाशः सर्वप्रथममहं तांस्तान् कातन्त्राचार्यान् प्रति प्रणतः सन् कृतज्ञतां प्रकाशयामि, येऽद्यापि पाणिनीयादिव्याकरणान्तरापेक्षया सरलं संक्षिप्तं च कातन्त्रमुपस्थाप्य व्याकरणवाङ्मये लोकव्यवहारप्रधानां माहेन्द्रीं परम्परामुज्जीवयन्तो जयन्ति । ततस्तदीयान्वेषणाय संप्रेरकान् आचार्यबलदेवोपाध्याय - रामशंकरभट्टाचार्य दीनानाथयक्ष विश्वबन्धुशास्त्रि - फतह सिंह - युधिष्ठिरमीमांसकप्रभृतीन् विद्वद्वर्यान् स्मारं स्मारं महतीं मुदमावहामि । - , ·
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy