SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् १७. ४ क इति जिह्वामूलीयः (१।१।१७) [सूत्रार्थ] क - ख वर्गों से पूर्ववर्ती विसर्ग के स्थान में होने वाले वज्राकृति वर्ण की जिह्वामूलीय संज्ञा होती है ।।१७। [दु० वृ०] ककार इहोच्चारणार्थः । - इति वज्राकृतिवर्णो जिह्वामूलीयसंज्ञो भवति । जिह्वामूलीयप्रदेशाः - कखयोर्जिह्वामूलीयं न वा” (१।५।४) इत्येवमादयः ।।१७। [दु० टी०] x क इति । जिह्वाया मूलं जिह्वामूलम्, तत्र भवः इति जिह्वामूलाङ्गुलाभ्याम् "यस्तु हिते" (२।६।१०) इत्यत्र योगविभागाद् अप्यधिकाराद् वा ईयप्रत्ययो वक्ष्यते । संज्ञायां सत्यां विसर्जनीयादेशेन भाव्यम् । आदेशस्य च संज्ञेतरेतराश्रयत्वात् संज्ञा न सिध्यतीति । नैष दोषः, नित्यत्वाच्छब्दानामिति | 'क+करोति, क+खनति' इति स्थितानामन्वाख्यानमात्रमेतदिति ।।१७। [वि० प०] x क इति। जिह्वामूले भवो जिह्वामूलीयः। जिह्वामूलाङ्गुलाभ्याम् "ईयस्तु हिते" (२।६।१०) इति योगविभागादप्यधिकाराद् वा ईयप्रत्ययः ।।१७। [क० च०] x क इति। अत्र इतिशब्देन सह सम्बन्धेऽपि स्वरूपाविर्भावसम्भवादुच्चारणानुलाघवार्थमेव सन्ध्यभावः स्वीकृत इत्येके | अन्ये तु "अवर्ण इवणे ए" (१।२।२) इत्यादिवदिदमपि विसन्धिज्ञापनार्थमित्याहुः । एवमुत्तरत्रापि । यद्यप्येतत् जिह्वामूलीयसंज्ञाप्रयोजनप्रतिपादकमेकमेव सूत्रम्, तथापि इत्येवमादयः इति यद् वृत्तायुक्तं तत् प्रवाहवशादिति कुलचन्द्रः। वस्तुतस्तु 'व्यक्तौ प्रतिलक्ष्यं लक्षणानि भिद्यन्ते' इति न्यायादादय इत्युक्तम् । ननु तत्र योगविभागफलं यथास्थानं दर्शितमेव, तदत्र कथं स्याद् इत्याह - अप्यधिकाराद् वेति || १७। [समीक्षा] आचार्य शर्ववर्मा ने वज्र (x, +) की आकृति वाले वर्ण की जिह्वामूलीय संज्ञा की है | पाणिनीय व्याख्याकार उसे जिह्वामूलीय कहते हैं, जो विसर्ग के
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy