SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ नाट्यशास्त्र - सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः ८१ वर्गे वगे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ । (१४|९) ।।१०। अघोषा इति ये त्वन्ये सघोषाः सम्प्रकीर्तिताः ॥ ११. वर्गाणां प्रथमद्वितीयाः शषसाश्चाघोषाः (१।१।११ ) [सूत्रार्थ] उक्त पाँच वर्गों के प्रथम - द्वितीय वर्ण तथा श ष स इन तीन वर्णों की भी अघोष संज्ञा होती है | ११ | [दु० वृ०] 1 वर्गाणां प्रथमद्वितीया वर्णाः शषसाश्चाघोषसंज्ञा भवन्ति । क ख च छ, ट ठ, त थ, पफ, श ष स । अघोषप्रदेशाः - " अघोषे प्रथमः" (२।३।६१) इत्येवमादयः ।। ११ । [दु० टी०] वर्गाणाम् । वर्गाणामिति सम्बन्धे षष्ठी, न तु वर्गाणां मध्ये प्रथमद्वितीया एव वर्णा इति निर्धारणे । चवर्गकवर्गयोर्द्वित्वाद् द्विवचनमेव भवितुमर्हति । घोषणं घोषो ध्वनिरुच्यते । अघोषा इति । न विद्यते घोषो येषां तेऽघोपाः । ईषदर्थेऽत्र नञ्, यथा अनुदरा कन्येति । एतेऽघोषा विवृतकण्ठाः श्वासानुप्रदानाश्च । विसर्जनीयजिह्वामूलीयोपध्मानीयाश्च विवृतकण्ठाः श्वासानुप्रदाना अघोषाश्च । यद्यपि सञ्ज्ञान्तरद्वारेण प्रयोजनाभावान्न निगद्यन्ते ते वर्गाः पञ्च पञ्च इत्यनेनान्तःस्थोष्मणाम् अवर्गत्वमवस्थापितम् । वर्गः समुदायो न ह्यवर्गस्य प्रथमादयोऽवयवा भवन्तीति किं वर्गाणामिति ग्रहणेन ? तथा च " अघोषे प्रथमः " (२।३।६१) इत्यादिषु वर्गमन्तरेणापि वर्गाणामिति प्रतिपद्यते । षट्सु, गच्छन्तीति डकारस्य टकारः, I छकारस्य चकार इति ? सत्यम् । तदेतत् सुखप्रतिपत्त्यर्थमेव ।। ११। [वि० प० ] वर्गाणाम्। न विद्यते घोषो ध्वनिर्येषाम् । ईषदर्थेऽत्र नञ्, यथा ‘अनुदरा कन्या' इति ।। ११ । [क० च०] वर्गाणाम् । ईषदर्थे नञ् इति । ननु प्रतिषेध एव नञर्थस्तत् कथमीषदर्थ इत्युपपद्यते ? सत्यम् । अत्रापि प्रतिषेध एव नञोऽर्थस्तथापि ईषदर्थे विषयभूते नञ् ।
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy