SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः वर्णसमाम्नाय एव वर्गसज्ञेयमिति भ्रान्तिरुत्पद्यते । सत्यप्यनन्तरत्वे मन्दधियामिति, अपरेण सङ्ख्यापरिच्छेदकेन पञ्चग्रहणेन वीप्सार्थो गम्यते चेत्, नैवम् । वीप्सैवेति प्रतिपद्यते श्रोता, तर्हि पञ्च वर्गाः पञ्चेति विधीयतां चेत्, सुखार्थम् ||१०| ७९ [वि० प० ] ते वर्गाः । तच्छब्दस्य नपुंसकपूर्ववस्तुपरामर्शिनोऽपि वर्णा इत्यध्याहारात् पुंसा निर्देशः । अथवा परस्य वर्गशब्दस्य लिङ्गमनेन गृहीतम्, यथा "य आधारस्तदधिकरणम्” (२ । ४ । ११ ) इत्यत्र तदित्यनेनाधिकरणस्येति । पञ्च पञ्चेति वीप्सायां द्विर्वचनम्, वीप्सा चात्र वर्गगुणेनैव । तृतीयस्तु पञ्चशब्दः पञ्चसंख्यापरिच्छेदं कुर्वाणोऽर्थान्मान्तमवधिमवस्थापयतीत्याह - " मावसानाः” इति । लोके वर्गशब्दः सजात्यपेक्षया समुदायवाची । तथा च सति “ चवर्गस्य किरसवर्णे" ( ३ | ६ |५५) इत्यादौ सवर्णापेक्षयाऽसवर्णोऽप्युपपद्यते, प्रयोगे तु पञ्चानामेकत्रानवस्थानादेकैकश एव वर्गसंज्ञाफलं लभन्ते ||१०| - [क० च०] ते० | निरन्वयेयं संज्ञा | ननु निर्दिष्टं विशेष्यलिङ्गमपहाय कथमध्याहार्यलिङ्गस्य परिग्राहितेत्याह - अथवा इति । ननु वर्गशब्देन प्रत्येकं पञ्चानामभिधाने कथं कस्य वर्गः कवर्ग इत्यादि व्यवहारः, ककारादेः परस्परसम्बन्धाभावात् कथं वा वर्गाः पञ्चेत्यन्वयः, तेषां (पञ्चविंशतिपरत्वात्) बहुत्वादित्याह - लोक इत्यादि । सजातीयसमुदायपर्यायो वर्गशब्दः संज्ञात्वेन निर्दिष्टः, तेन ककारस्य सजातीयसमुदायः कवर्ग उच्यते । सजातीयत्वं तु कण्ठ्यत्वादिनां न तु वर्णत्वेन व्यावृत्तेरभावात् । 1 ननु भवतु नाम वर्गशब्दः सवर्णसमुदायवाची, तथापि कथं सामानाधिकरण्येनान्वयबोधः, पञ्च पञ्चेत्यनेन समूहिनो निर्दिष्टत्वात् ? सत्यम् । कवर्गशब्दसन्निधानात् पञ्चशब्देन लक्षणया पञ्च पञ्च वर्णघटिताः समुदाया उच्यन्ते, ते पञ्चैवेति युक्तोऽयमन्वयः । ननु तच्छब्देन कादीनां परामर्शात् समूहसम्बन्धे षष्ठी स्यात् ततश्च कथं प्रथमा ? सत्यम्, तच्छब्देनापि लक्षणया तत्संबन्धिन उच्यन्ते तेन कादिसम्बन्धिनः पञ्चपञ्चवर्णघटिताः समूहा वर्गा भवन्तीत्यर्थः । ननु वर्गभवानां वर्णानां स्ववर्गभवेन वर्णेन सह परस्परं सवर्णत्वादवर्णत्वाभावादसवर्णत्वानुपपत्तौ कथं 'पक्ता-भोक्ता' इत्यत्र " चवर्गस्य किरसवर्णे”
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy