SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभे । भ्रातरि च ज्यायसि ॥ १६६ ॥ । ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादिर्युवा स्यात् । गार्ग्यादिषु मृतेष्वपि जीवत्यग्रजेऽनुजो गाययणः । वान्यस्मिन्सपिण्डे स्थविरतरे जीवति ॥ १६७ ॥ भ्रातृभिन्ने स्थानवयोभ्यामुत्कृष्टे सपिण्डे जीवति जीवदेव चतुर्थादि युवसंज्ञं वा स्यात् । गर्गस्य भ्रातरि पितृव्यादौ वा जीवति जीवंश्चतुर्थो गाययणः । गाग्र्यो वा । अन्यस्मिन् किम् । भ्रातरि जीवति जीवतो विकल्पो मा भूत् पूर्वसूत्रं तु मृते चतुर्थादौ सावकाशम् । सापिण्ड्यं सप्तपौरुषम् । सपिण्डे किम् । उदासीने मा भूत् । स्थविरतरे किम् | स्थानवयोभ्यामन्यतरेण वाऽपकृष्टे मा भूत् । इह सूत्रे जीवतीति तिङन्तम् । यो जीवति स युवेत्यर्थात् । मृतस्तु जीवत्यपि स्थविरतरे गार्ग्य एव न तु गार्ग्यीयणः । ९४ जनपदशब्दात्क्षत्रियादञ् ॥ १६८ ॥ जनपदत्राचकं यत् क्षत्रियवाचि प्रातिपदिकं तत्प्रकृतिकात् षष्ठ्यन्तादञ् स्यादपत्ये । पाञ्चालः । यद्यपि पञ्चालादयो जनपदे बहुवचनान्ताः क्षत्रिये त्वेकवचनान्तास्तथापि प्रातिप दिकस्यो भगवाचित्वमक्षतमेव । लुब्योगाप्रख्यानादिति सूत्रयतो भगवत उभयवाचिताभ्युपगमेन सन्देग्धव्यम् । ऐक्ष्वाकः । ऐक्ष्वाकौ । दाण्डिनायनादिसूत्रेण टिलोपे निपातितः । जनपदशब्दात्किम् । दुह्येोरपत्यं द्रौत्रः । क्षत्रियसमानशब्दाज्जनपदाचस्य राजन्यपत्यवत्प्रत्यया भवन्तीति वक्तव्यम् । पश्चालानां राजा पाञ्चालः । अवृद्धादपि बहुवचनविषयादिति प्राप्तस्य
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy