SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ शब्द कौस्तुभे । I इतश्चानिञः ॥ १२४ ॥ इकारान्ताद्व्यचोऽपत्ये ढक् स्यान्न त्विजन्तात् । दौलेयः । नैधेयः । परत्वादयमृष्यणं बाधते । आत्रेयः । द्व्यचः किम् | मरीचेमारीच इति काशिका | तच्चिन्त्यम् । बाह्वादित्वेनेज्यसङ्गात् । तथा च मिदचोन्त्यात्पर इति सूत्रे भाष्यं मरीचिशब्दो बाह्वादिषु पठ्यते इति तस्मादुदधेरौदध इत्यादि प्रत्युदाहरणान्तरं बोध्यम् । अनिञः किम् । दाक्षायणः । ७८ शुभ्रादिभ्यश्च ॥ १२५ ॥ I एभ्यो ढक् स्यात् । शुभ्रस्यापत्यं शौभ्रेयः । इहादन्तेष्विञ् प्राप्तः । शलादिषु तन्नामिकान् । विधवाशब्दात् क्षुद्रालक्षणो ढुक् । चतुष्पाद्वाचिषु ढञ् । गोधाशब्दाइढक् । वचनात्तु सोऽपि भवति । कचिदौत्सर्गिकाण प्राप्तः । पाण्डवेयः । उलोपस्तु न भवति । कद्रूपर्युदासेन स्त्रीलिङ्गस्यैव लोपविधौ ग्रहणादिति केचित् । एवन्तु मार्कण्डेयो न स्यात् तस्मात् पाण्डवशब्दात् पाण्डवेय बोध्यः । केचित्तु मृकण्ड शब्दमदन्तं पठन्ति । मृगय्वादयश्चेतिसूत्रे उज्वलदत्तोऽप्येवम् । मृकण्डस्य मुनेस्तीर्थे तयास्यामथ निर्मलमिति काशीखण्डे । अस्मिन् पक्षे पर्युदासेऽपि सिद्धम् । विमातृशब्दादप्यौत्सर्गिकोऽण् प्राप्तः । वैमात्रेयः । एवं लैरवाभ्रेयः । लक्षणश्यामयोर्वासिष्ठे । लाक्षणेयः । वासिष्ठ - श्वेत् । लाक्षणिरन्यः । श्यामेयो वासिष्ठः । श्यामायनोऽन्यः । अश्वादित्वात्फञ् । आकृतिगणोऽयम् । विकर्णकुषितकात्काश्यपे ॥ १२६ ॥ वैकर्णेयः । कौषीतकेयः । काश्यपे किम् । वैकाणिः । कौषीतकिः ।
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy