SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ शब्दकोस्तुभे। दी भव । अशिशुमिवमामयं शरारुरभिमन्यते । आधेनवो धुन. पन्तामशिश्वीरित्यादि। जातेरस्त्रीविषयादयोपधात् ॥ ६३ ॥ जातिवाचि यन च स्त्रियां नियतमयोपधं ततः स्त्रियां कीस्यात् । आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्माह्या गोत्रं च चरणैः सह ॥ ग्रहणमिति करणे ल्युट् सामान्ये नपुंसकम् । आकृतिर्ग्रहणं यस्या इति बहुव्रीहिः । अनुगतसंस्थानन्यझ्या जातिरित्यथः। मृगी । हंसी । एवमपि वृषलीत्यादि न सिद्ध्यति । वृषले ब्राह्मणादिव्यावृत्तसंस्थानाभावात् । अतो लक्षणान्तरमुक्तम् । लिङ्गानां चेति । सर्वाणि लिङ्गानि न भजतीत्यर्थः । सर्वशब्दस्य लिङ्गापेक्षत्वेपि गमकत्वाद् भजोरिवः समासश्च किमोदनः शालीनामित्यादिवत् लिङ्गानामिति कर्मणि षष्ठी । तेन वृषलीत्यादि सिद्धम् । ब्राह्मणीशब्दे तु प्राप्तो जातिलक्षणो ङीष् शाबरवादिपाठान् ङीना बाध्यते । न च मृगीत्यादरप्यनेन सिद्धेः प्रथमलक्षणवैयर्थ्य शङ्माम् । तटः। तटी । तटमित्याधर्य तस्या. प्यावश्यकत्वात् । देवदत्ता देवदत्त इत्यसर्वलिङ्गम् । तेन तत्र द्वितीयलक्षणस्यातिव्याप्तिं वारयितुमाह । सकृदिति । एकस्यां व्यक्तौ कथिता सती व्यत्यन्तरे कथनं विनापि सुग्रहत्यर्थः । न ह्येवं देवदत्तत्वम् । परिमाणभेदेन द्रव्यभेदस्यानभ्युपंगमात् । अभ्युपगमे वा समानकालतया व्यत्यन्तरस्य विशेषणात् । ब्राह्मणत्वादिस्तु भवत्येवम् । तदीयपितृभ्रात्रादिषु मुग्रहत्वात् । आपलक्षणेऽपीदं योज्यम् । तत्रायं विशेष: एकत्वं नित्यत्वं
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy