SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सन्दकौस्तुभे। आग्रहायणीभार्य इत्यादौ पुंवद्भावाभावः पाठफलमित्याहुः। एतदपि वृद्धिनिमित्तस्य चेति सिद्धमिति चेत् पुंवत्कमंधारयेति प्रतिप्रसवस्थलेऽपि पुंवद्भावाभावः पाठफलमित्याशयो बोध्यः । सुमङ्गलात् संज्ञायामिति पठ्यते । जातिवचनोऽव्युत्पन्नः स्त्रीविषयः सुमङ्गलशब्दो लघावन्त इति मध्योदत्तो द्रष्टव्य इति हरदत्तः । गौर । मरय । मनुष्य । शृङ्ग । गवय । हय ! ऋष्य । पुट । द्रुण। द्रोण । अरीहण । वरेट । अणक। आमलक । कुवल । बदर । बिल्व । तार । शर्कार । शष्कण्ड । शवल । संवलद । गडुज । पाण्डर । पिप्पल्यादयश्च । आकृतिगणोऽयम् । पृथिवीशब्दो ऽत्र पठ्यते । तत्र प्रथेः षिवन्संप्रसारणं चेति षित्वादेव सिद्धे प्रत्ययान्तस्य पाठः पुंवद्भावनिवृत्तये इत्येके। स्त्रीविषयत्वात् वद्भावप्राप्तिश्चिन्त्येति हरदत्तः।मातामहीति पठ्यते तत्र मातरि षिचेति वार्तिकाषित्वेन सिद्धे अनित्यः पिता कीषिति ज्ञापनार्थः पाठः। तेन दंष्ट्रेति सिद्धम् । अजादिषु पाठाटाबित्यन्ये । जानपदकुराडगाणस्थलभाजनागकालनीलकुशका. मुककबराद् वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥ ४२ ॥ एभ्यः एकादशभ्यः प्रातिपदिकेभ्यः क्रमादेकादशष्वर्थेषु ङीष् स्यात् । जानपदी वृत्तिश्चेत् । वर्ततेऽनयेति वृतिर्जीविका । अन्या तु जानपदी । उत्सादित्वा. दनन्तत्वेन टिड्ढेति डीप्यायुदात्तता । कुण्डी अमत्रं चेत् । अस्त्री कमण्डलुः कुण्डीत्यमरः । जातिवाचित्वेऽपि स्त्रीविषयत्वादप्राप्तो डीविधीयते । अग्न्यादिपर्यायस्तु कुण्डशब्दो नपुंस. के नियतः । कुण्डमग्न्यालये मानभेदे देवजलाशये इति मेदि
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy