SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २३४ शब्द कौस्तुभे । तमित्यर्थे इनयौ स्तः चात्ख इति वृत्तिकाराः । यलू तु नानुवर्तत इत्येतदपि हि योगविभागफलं तैरुक्तम् । यलूखावित्येक योग इति भाष्यपक्षे तु यलप्यनुवर्तते । यदि वेदे लित्स्वरो नास्तीत्यत्र प्रमाणमस्ति तकदेशानुवृत्तिरस्तु किंच्वेतत्तत्रं सर्वशाखा - हर्षा महर्षीणामेव दृग्गोचरो नतु योगजधर्मरहितानामपि । गाम्भीरेभिः पथिभिः पूर्विभिः । यतेपन्था सचितः पूयसः । पूर्वीणाः । अद्भिः संस्कृतमित्यर्थः । सहस्रेण संमितौ घः ॥ १३०॥ 'समित इति पाठान्तरम् । उभयथापि तुल्य इत्येवार्थः । सहस्रियासो अपां नोर्मयः । सहस्रेण तुल्या इत्यर्थः । मतौ च ॥ १३१ ॥ सहस्रशब्दान्मत्वर्थे घः स्यात् । तपः सहस्राभ्यां विनिनी इत्यस्यापवादः । सहस्रमस्यास्ति सहस्त्रियः । सोममईति यः ॥ १३२ ॥ सोम्यो ब्राह्मणः । यज्ञाई इत्यर्थः । कथं तर्हि प्रीताऽस्मि ते सोम्य चिराय जीवेति रघुः । छन्दोधिकारात् । उच्यते । सोमः कर्पूरचन्द्रयोः । सोम इव सोम्यः । शाखादित्वाद्यः । सोमे साधुः तत्र साधुरिति यद्वा । सौम्येत्यादिवृद्धिठे चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् । मये च ॥ १३३ ॥ सोमशब्दाद्यः स्वन्मयडर्थे । आगतविकारावयवप्रकृता मयडर्थाः । तथा च सूत्राणि । हेतुमनुष्येभ्योऽन्यतरस्यां
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy