SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये ४ पादे २ आह्निकम् । २३१ थापि तत्प्रकृतिकमतुपि प्रत्ययो नापादनीयः । छन्दोधिकारात् । तत्र हि सिद्धस्यानुशासनं न तु काव्यादिवत् अपूर्वोस्मेक्षासम्भवः एवं चेह इतिशब्दादिकं स्पष्टार्थमित्यवधेयम् । एवं तेजस्याः । ऋतव्याः । अथ कथं सृष्टीरुपदधाति प्रा. णभृत उपदधातीति । सृष्ट्याः प्राणभृत्या इति हि पामोति । सत्यम् । सृष्टयादिशब्दानां तन्मन्त्रोपधेयास्विष्टकासुपचारात्प्रयोगः न तु तद्धितान्तमेतदित्यवधेहि । पूर्वोत्तरमीमांसयोस्तु तद्धितपरतया प्रतीयमाना ग्रन्था भइत्वानेयाः । अश्विमानण् ॥ १२५ ॥ अश्विमच्छब्दात्मागुक्तेर्थेऽण् स्याधतोपवादः मतोलक् च । इनण्यनपत्य इति प्रकृतिभावः । अश्विनीरूपदधाति । अश्विन्शब्दवान्मन्त्र उपधानो यासामिष्टकानान्ता इत्यर्थः । वयस्यासु मूर्नो मतुप् ॥ १२६ ॥ तद्वानासामिति सूत्रं सर्वमनुवर्तते । तत्र मतोरिति पदमावर्य पञ्चम्यन्ततया व्याख्यायते । मूर्धशब्दप्रकृतिको यो म. तुप तदन्तप्रकृतिकात्मथमान्तान्मतुप् स्यात् । यतोऽपवादः । प्रकृत्यन्तर्गतस्य मतोलक् च । वयःशब्दवन्मन्त्रोपधेयास्थिकासु वाच्यासु । मुर्धन्वतीरूपदधाति । अनोनुडिति नुडागमः । वयःशब्दवन्मन्त्रोपधेयत्वाद्वयस्याशब्देन छन्दसीष्टका व्यवहृताः । ताश्च बहयः तास्वन्तश्चतम्रो मूर्धन्वत्वः विष्टम्भो वय इत्यादिभिर्वयस्वार्द्रमन्त्रैरुपधेयाः । तत्र यद्यपि मूर्धावयः प्रजापतिछन्द इत्यस्मिन्नन्तिम एव मन्त्रे मूर्धन शब्दोऽस्ति तथा. पि तत्साहचर्याद्विष्टम्भोवय इत्यादयश्चत्वारोऽपि मन्त्रा मुर्दशब्दवन्त उच्यन्ते छत्रिणो गच्छन्तीतिवत् अत एव तदुपधेयेष्टकासु
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy