SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभे । भक्ताराणः ॥ ९९ ॥ भक्ते साधवो भाक्ताः शालयः । परिषदो ण्यः ॥ १०० ॥ परिषदि साधुः पारिषद्यः । परिषद इति योगविभागाण्णोऽपि । तथा च भाष्यं प्रयुक्तम् । पारिषद कृतिरेषा तत्र भवतामिति । सर्ववेदपारिषदं शास्त्रमिति च । पार्षद मिति पाठे पृषोदरादित्वादिकारलोपः । कथादिम्यष्ठक् ॥ १०१ ॥ १२६ कथायां साधुः काथिकः । गुडादिभ्यष्ठञ् ॥ १०२ ॥ गुडे साधुडिक इक्षुः । कौल्माषिको मुद्गः । साक्तुको यवः । गुड | कुल्माष । सक्तु । अपूप । मांस । ओदन । इक्षु । बेणु । संघात | प्रवास | निवास । पथ्यतिथिवसतिस्वपतेर्ढञ् ॥ १०३ ॥ पथि साधुः पायेयः । आतिथेयः । वसनं वसतिः । वसेश्चेत्यतिप्रत्ययः । तत्र साधुर्वासतेयी रात्रिः । स्वस्य पतिः स्वपतिराढ्यः तस्य योग्यं स्वापतेयं धनम् । सभाया यः ॥ १०४ ॥ सभायां साधुः सभ्यः । अन्तोदाचः । यति तु वित्स्वरः स्यात् । क्रतुर्भवत्युत्रभ्य इति वत् । व्यच्कत्वेऽपि हि तत्र यतोनाव इति न भवति । यस्येतिलोपात्प्राक् ध्यचत्वात् । यदुत्पतिवेलायां व्यचत्वस्य वेदभाष्ये स्थापितत्वात् । पक्षान्तरे तु नमः क्षष्याय च केत्नाय चेत्यादिवदाद्युदात्तः ।
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy