SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये ४ पादे २ आह्निकम् । तिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः । प्रस्तारसंस्थानशब्दौ सनिवेशपर्यायौ । निकटे वसति ॥ ७१ ॥ निकटशब्दात्सप्तम्यन्ताट्ठक् स्याद्वसतीत्यर्थे । नैकटिको २१९ भिक्षुः । आवसथात्ष्ठल् ॥ ७३ ॥ वसतीत्यर्थे । आवसन्त्यस्मिन्नियावसथः । उपसर्गे वसेरित्यथप्रत्ययः । आवसथे वसत्यावसयिकः । षित्वान् ङीष् । आवसथिकी । समाप्तोऽस्य ठकोऽवधिः । प्राग्विताद्यत् ॥ ७४ ॥ तस्मै हितमित्यतः प्राक् यदधिक्रियते । तद्वहति रथयुगप्रासङ्गम् ॥ ७५ ॥ रथ्यः । युगं रथाङ्गं वहति युग्यः । वत्सानां दमनकास्कन्धे यत्काष्ठमासज्यते स प्रासङ्गः । प्रासज्यतेऽसाविति कर्मणि घञ् तं वहति प्रासङ्ग्यः । धुरो यड्ढकौ ॥ ७६ ॥ इह धुरो ढक् चेत्येव सुवचम् । धुरं वहति धुर्यः । धौरेयः । धुर्वी हिंसायाम् । भ्राजभासेति किप् । राल्लोपः धूः । यति तु न भकुर्कुरामिति निषेधाद्धलि चेति दीर्घो न । इह उग् विधीयते न तु ठटञ् । धौरेयो लोहितार्भाशुरिति दृश्यते । धौरेयक इति तु स्वार्थे कनि बोध्यम् । रवः सर्वधुरात् ॥ ७७ ॥ शब्दस्वरूपापेक्षया नपुंसकनिर्देशो बन्धुनि बहुव्रीहाविति
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy